एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा। उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत् ।। 54
अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः। असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् ।। 1
त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः । किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् ।। 2
गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन्। स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् ।। 3
सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन्। सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः ।। 4
तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम्। भयात्समुद्विग्नविपण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत् ।। 5
तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम्। समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम् ।। 6
अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव । कोऽयं युवा वारणराजसन्निभः सभामभिप्रैति हि मामिकामिमाम् ।। 7
को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः। व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते ।। 8
राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः। नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ ।। 9
रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शत्रः इवाभिपालयेत्। नाभूमिपोऽयं हि रतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः ।। 10
वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत्। जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् ।। 11
ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम्। त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः ।। 12
नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत्। जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् । रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् ।। 13
तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत्। न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ ।। 14
हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे । न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ।। 15
अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः। न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि ।। 16
चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम्। जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ।। 17
युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः। अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ।। 18
त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् । बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव ।। 19
गजांश्च सिंहांश्च समेयिवानहं सदा करिष्यामि तवानघ प्रियम्। न नीचकर्मा तव मादृशः प्रभो बलस्य नेताऽप्यबलो भवेदिति ।। 20
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां सूदपदे यदीच्छसि। ये सन्ति मल्ला बलवीर्यसंमतास्तानेव योत्स्यामि तवाभिहर्पयन् ।। 21
तमेवमुक्ते वचने नराधिपः प्रत्यब्रवीन्मत्स्यपतिः प्रहृष्टवत्। सोहं न मन्ये तव कर्म तत्समं समुद्रनेमिं पृथिवीं त्वमर्हसि ।। 22
त्रिलोकपालो हि यथा विराजसे तथाऽद्य मे विष्णुरिवातिरोचसे। यथा तु कामस्तव तत्तथा कृतं महानसे मे भव मे पुरस्कृतः । नराश्च मे तत्र मया सदाऽर्चिता भवाद्य तेषामधिपो मया कृतः ।। 23
तथा स भीमो विहितो महानसे विराटराजस्य बभूव वै प्रियः। उवास राजन्न च तं पृथग्जनो बुबोध तस्यानुचरश्च कश्चन ।। 24
अथापरोऽदृश्यत वर्णवान्युवा स्त्रीवेषधारी समलंकृतो भृशम्। प्रवालचित्रे प्रविमुच्य कुण्डले उभे च कम्बू परिपातुके तथा ।। 1
कृष्णे च रक्ते च निबध्य वाससी शरीरवाञ्शुक्रबृहस्पतिप्रभः। बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो मत्तगजेन्द्रविक्रमः ।। 2
क्लैब्येन वेषेण न भति भाति च ग्रहाभिपन्नो नभसीव चन्द्रमाः । गतेन चोर्वी परिकम्पयंस्तदा विराटमासाद्य सभासमीपतः ।। 3
तं प्रेक्ष्य राजोपगतं सभातले व्याजाप्रतिच्छन्नममित्रमर्दनम् । विराजमानं सुरराजवर्चसं सुतं सुरेन्द्रस्य गजेन्द्रविक्रमम् ।। 4
सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः। न चैनमूचुर्विदितं नरास्तदा सविस्मयं वाक्यमिदं नृपोऽब्रवीत् ।। 5