तेनैवमुक्ते वचने नराधिपः कृताञ्जलिः प्रव्रजितं विलोक्य च । अथाब्रवीद्धृष्टमनाः शुभाक्षरं मनोनुगं सर्वसभागतं वचः ।। 44
ददामि ते हन्त वरं यदीप्सितं प्रशाधि मत्स्यान्यदि मन्यते भवान्। प्रिया हि धूर्ता मम चाक्षकोविदास्त्वं चापि देवो मम राज्यमर्हसि ।। 45
समानयानासनवस्त्रभोजनं प्रभ्रूतमाल्याभरणानुलेपनम्। स सार्वभौमोपम सर्वदाऽर्हसि प्रियं हि मन्ये तव नित्यदर्शनम् ।। 46
ये त्वाऽभिधावेयुरनर्थपीडिता द्विजातिमुख्या यदि वेतरे जनाः। सर्वाणि कार्याण्यहमर्थितस्त्वया तेषां करिष्यामि न मेऽत्र संशयः ।। 47
ममान्तिके यश्च तवाप्रियं चरेत्प्रवासये तं परिचिन्त्य मानवम् । यच्चापि किंचिद्वसु विद्यते मम प्रभुर्भवांस्तस्य वशी वसेह च ।। 48
अतोऽभिलाषः परमो न विद्यते न मे जितं किंचन धारये धनम्। न भोजनं किंचन संस्पृशेयं हविष्यभोजी निशि च क्षितीशयः ।। 49
व्रतोपदेशात्समयो हि नैष्ठिको न क्रोधितव्यं नरदेव कस्यचित्। एवंप्रतिज्ञस्य ममेह भूपते निवासबुद्धिर्भविता तु नान्यथा ।। 50
एवं वरं मात्स्य वृणे प्रदापितं कृति भविष्यामि वरेण तेऽनघ ।। 51
एवं तु राज्ञः प्रथमः समागमो बभूव मात्स्यस्य युधिष्ठिरस्य च। विराटराजस्य हि तेन सङ्गमो बभूव विष्णोरिव वज्रपाणिना ।। 52
तमासनस्थं प्रियरूपदर्शनं निरीक्षमाणो न ततर्प भूमिपः। सभां च तां प्रज्वलयन्युधिष्ठिरः श्रिया यथा शक्रइव त्रिविष्टपम् ।। 53
एवं स लब्ध्वा नृपतिः समागमं विराटराजेन नरर्षभस्तदा। उवास वीरः परमार्चितः सुखी न चास्य कश्चिच्चरितं बुबोध तत् ।। 54
अथापरस्यां दिशि भीमदर्शनो वृकोदरोऽदृश्यत सिंहविक्रमः। असिप्रवेके प्रतिमुच्य शाणिते खजां च दर्वी च करेण धारयन् ।। 1
त्वचं च गोचर्ममयीं सुमर्दितां समुक्षितां पानकरागषाडवैः । किलासमालम्ब्य करेण चायसं सशृङ्गिबेरार्द्रकभूस्तृणाङ्कुरम् ।। 2
गम्भीररूपः परमेण तेजसा रविर्यथा लोकमिमं प्रकाशयन्। स कृष्णवासा गिरिराजसारवान् स मत्स्यराजं समुपेत्य तस्थिवान् ।। 3
सभागतो वारणयूथपोपमस्तमिस्रहा रात्रिमिवावभासयन्। सहस्रनेत्रावरजान्तकोपमस्त्रिलोकपालाधिपतिर्यथा हरिः ।। 4
तमाव्रजन्तं गजयूथपोपमं निरीक्षमाणो नवसूर्यवर्चसम्। भयात्समुद्विग्नविपण्णचेतनो दिशश्च सर्वाः प्रसमीक्ष्य चासकृत् ।। 5
तमेकवस्त्रं परसैन्यवारणं सभाऽविदूरान्नृपतिर्नृपात्मजम्। समीक्ष्य वैक्लब्यमुपेयिवाञ्शनैर्जनाश्च भीताः परिसर्पिरे भृशम् ।। 6
अथाब्रवीन्मात्स्यपतिः सभागतान् भृशातुरोष्णं परिनिश्वसन्निव । कोऽयं युवा वारणराजसन्निभः सभामभिप्रैति हि मामिकामिमाम् ।। 7
को वा विजानाति पुराऽस्य दर्शनं मृगेन्द्रशार्दूलगतिं हि मामकः। व्यूढान्तरांसो मृगराडिवोत्कटो य एष दिव्यः पुरुषः प्रकाशते ।। 8
राजश्रिया ह्येष विभाति राजवद्विरोचते रुक्मगिरिप्रभोपमः। नाक्षत्रियो नूनमयं भविष्यति सहस्रनेत्रप्रतिमस्तथा ह्यसौ ।। 9
रूपेण यश्चाप्रतिमो ह्ययं महान्महीमिमां शत्रः इवाभिपालयेत्। नाभूमिपोऽयं हि रतिर्ममेति च च्युतः समृद्ध्या नभसीव नाहुषः ।। 10
वितर्कमाणस्य च तस्य पाण्डवः सभामतिक्रम्य वृकोदरोऽब्रवीत्। जयेति राजानमभिप्रमोदयन्सुखेन सभ्यं च सभागतं जनम् ।। 11
ततो नृपं वाक्यमुवाच पाण्डवो यथाऽनुपूर्व्यात्कृपयान्वितोत्तरम्। त्वां जीवितुं शत्रुहन्नागतोऽहं त्वमेव लोके परमो हि संश्रयः ।। 12
नरेन्द्र शूद्रोस्मि चतुर्थवर्णभाग्गुरूपदेशात्परिचारकर्मकृत्। जानामि सूपांश्च रसांश्च संस्कृतान्मांसान्यपूपांश्च पचामि शोभनान् । रागप्रकाराश्च बहून्फलाश्रयान्महानसे मे न समोस्ति सूपकृत् ।। 13
तमब्रवीन्मत्स्यपतिः प्रहृष्टवत्प्रियं प्रगल्भं मधुरं विनीतवत्। न शूद्रतां कांचन लक्षयामि ते कुबेरचन्द्रेन्द्रदिवाकरप्रभ ।। 14
हुताशनाशीविषतुल्यतेजसो न कर्म ते योग्यमिदं महानसे । न सूपकारो भवितुं त्वमर्हसि सुपर्णगन्धर्वमहोरगोपम ।। 15
अनीककर्णाग्रधरो ध्वजी रथी भवाद्य मे वारणवाहिनीपतिः। न नीचकर्मा भवितुं त्वमर्हसि प्रशासितुं भूमिमिमां त्वमर्हसि ।। 16
चतुर्थवर्णोस्म्यहमुग्रशासन न वै वृणे त्वामहमीदृशं पदम्। जात्याऽस्मि शूद्रो बललेति नाम्ना जिजीविषुस्त्वद्विषयं समागतः ।। 17
युधिष्ठिरस्यास्मि महानसे पुरा बभूव सर्वप्रभुरन्नपानदः। अथापि मामुत्सृजसे महीपते व्रजाम्यहं यावदितो यथागतम् ।। 18
त्वमन्नसंस्कारविधौ प्रशाधि मां भवामि तेऽहं नरदेव सूपकृत् । बलेन तुल्यश्च न विद्यते मया नियुद्धशीलोस्मि सदा हि पार्थिव ।। 19