निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः । मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः ।। 4
स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात्। वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम् ।। 5
स वै मयोक्तो वरदः पिता प्रभुः सदैव मे धर्मरता मतिर्भवेत्। इमे च जीवन्तु ममानुजाः प्रभो वयं स्वरूपं च जयं तथाऽऽप्नुमः ।। 6
क्षमा च कीर्तिश्च यथेप्सितं भवेद्व्रतं तु सत्यं च समाप्तिरेव च। वरो ममैषोस्तु यथाऽनुकीर्तितो न तन्मृषा देववृषो यथाऽब्रवीत् ।। 7
इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन्। तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् ।। 8
स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत। सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम् ।। 9
तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः। क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् ।। 10
नवेन रूपेण विशांपतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान्। निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः ।। 11
ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम्। अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् ।। 12
सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः । उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः ।। 13
गजैरुदीर्मं तुरगैश्च सङ्कुलं मृगद्विपैः कुब्जगणैः समावृतम् । सितोच्छ्रितोष्णीषनिरुद्धमूर्धजं विचित्रवैडूर्यविकारकुण्डलम् । विराटमायाच्च युधिष्ठिरस्तदा बृहस्पतिः शक्रमिव त्रिविष्टपे ।। 14
तमाव्रजन्तं प्रसमीक्ष्य पाण्डवं विराटराजो मुदितेन चक्षुषा । पप्रच्छ चैनं स नराधिपो मुहुर्द्विजाश्च ये चास्य सभासदस्तदा ।। 15
को वा विजानाति पुराऽस्य दर्शनं युवा सभां योऽयमुपैति मामिकाम्। रूपेण सारेण विराजयन्महीं श्रिया ह्ययं वैश्रवणो द्विजो यथा ।। 16
मृगेन्द्रराड्वारणयूथपोपमः प्रभात्ययं काञ्चनपर्वतो यथा। विराजते पावकसूर्यसन्निभं सचन्द्रनक्षत्र इवांशुमान्ग्रहः ।। 17
न दृश्यतेऽस्यानुचरो न कुञ्जरो न चोष्णरश्म्यावरणं समुच्छ्रितम् । न कुण्डलं नाङ्गदमस्य न स्रजो विचित्रिताङ्गश्च रथश्रतुर्युजः ।। 38
क्षात्रं च रूपं हि बिभर्त्ययं भृशं गजेन्द्रशार्दूलमहर्षभोपमः । अभ्यागतोऽस्माननलंकृतोपि सन् विरोचते भानुरिवाचिरोदितः ।। 19
विभात्ययं क्षत्रिय एव सर्वथा विराट इत्येवमुवाच तं प्रति। ससागरान्तामयमद्य मेदिनीं प्रशासितुं चार्हति वासवोपमः ।। 20
नाक्षत्रियो नूनमयं भविष्यति मूर्धाभिषिक्तः प्रतिभाति मां प्रति । तुल्यं हि रूपं प्रतिदृश्यतेऽस्य गजस्य सिंहस्य तथर्षभस्य ।। 21
यमेष कामं परिमार्गते द्विजः स चास्य सर्वः क्रियतामसंशयम् । प्रियं च मे दर्शनमीदृशे जने द्विजेषु मुख्येषु तथाऽतिथिष्वपि ।। 22
धनेषु रत्नेष्वथ गोषु वेश्मसु प्रकामतो मे विचरत्ववारितः ।। 23
एवं ब्रुवाणस्तमनन्ततेजसं विराजमानं सहसोत्थितो नृपः। अन्येन रूपेण समीपमागतं त्रिदण्डकुण्ड्यङ्कुशशिक्यपाणिनम् ।। 24
समुत्थिता सा हि सभा सपार्थिवा सविप्रराजन्यविशा सशूद्रका । सभागत प्रेक्ष्य तपन्तमर्चिषां विनिःसृतं राहुमुखाद्यथा रविम् ।। 25
स तेन पूर्वं जयतां भवानिह द्विजातिनोक्तोऽभिमुखः कृताञ्जलिः । जयं जयार्हेण समेत्य वर्धितो विराटराजो ह्यभिवादयच्च तम् ।। 26
तमब्रवीत्प्राञ्जलिरेष पार्थिवो विराटराजो मधुराक्षरं वचः। प्राप्तः कुतस्त्वं भगवन्किमिच्छसि क्व यास्यसे किं करवाणि ते द्विज ।। 27
श्रुतं च शीलं च कुलं च शंस मे गोत्रं तथा नाम च देशमेव ते। सत्यप्रतिज्ञा हि भवन्ति साधवो विशेषतः प्रव्रजिता द्विजातयः ।। 28
यथाऽनुरूपं प्रचरामि ते त्वहं न चावमन्ता न तवाभिभाषितम् । अपूजिता ह्यग्निसमा द्विजातयः कुलं दहेयुः सविषा इवोरगाः ।। 29
सर्वां च भूमिं तव दातुमुत्सहे सदण्डकोशां विसृजामि ते पुरम् । कस्यासि राज्ञो विषयादिहागतः किं कर्म चात्राचरसि द्विजोत्तम ।। 30
एवं ब्रुवाणं तमुवाच पार्थिवं युधिष्ठिरो धर्ममवेक्ष्य चासकृत् । सत्यं वचः को न्विह वक्तुमुत्सहेद्यथाप्रतिज्ञं तु शृणुष्व पार्थिव ।। 31
श्रुतं च शीलं च कुलं च कर्म च शृणुष्व मे जन्म च देशमेव च । गुरूपदेशान्नियमाच्च मे व्रतं कुलक्रमार्थं पितृभिर्नियोजितम् ।। 32
द्विजो व्रतेनास्मि न च स्वतः प्रभो संमुण्डितः प्रव्रजितस्त्रिदण्डभृत् । इदं शरीरं मम पश्य मानुषं समावृतं पञ्चभिरेव धातुभिः ।। 33