स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन्। जरामार्च्छन्महाघोरां नाहुषो रूपनाशिनीम्
जराऽभिभूतः पुत्रान्स राजा वचनमब्रवीत्। यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत
यौवनेन चरन्कामान्युवा युवतिभिः सह। बिहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः
तं पुत्रो दैवयानेयः पूर्वजो वाक्यमब्रवीत्। किं कार्यं भवतः कार्यमस्माकं यौवनेन ते
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम्। यौवनेन त्वदीयेन चरेयं विषयानहम्
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः। कामार्थः परिहीणोऽयं तप्येयं तेन पुत्रकाः
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः। अहं तन्वाऽभिनवया युवा काममवाप्नुयाम्
ते न तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम्। तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः
राजंश्चराभिनवया तन्वा यौवनगोचरः। अहं जरां समादाय राज्ये स्थास्यामि तेज्ञया
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात्। संचारयामास जरां तदा पुत्रे महात्मनि
पौरवेणाथ वयसा राजा यौवनमास्थितः। यायातेनापि वयसा राज्यं पूरुरकारयत्
ततो वर्षसहस्राणि ययातिरपराजितः। स्थितः स नृपशार्दूलः शार्दूलसमविक्रमः
ययातिरपि पत्नीभ्यां दीर्घकालं विहृत्य च। विश्वाच्या सहितो रेमे पुनश्चैत्ररथे वने
नाध्यगच्छत्तदा तृप्तिं कामानां स महायशाः। अवेत्य मनसा राजन्निमां गाथां तदा जगौ
न जातु कामः कामानामुपभोगेन शाम्यति। इविषा कृष्णवर्त्मेव भूय एवाभिवर्धते
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः। नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत्
यदा न कुरुते पापं सर्वभूतेषु कर्हिचित्। कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
न बिभेति यदा चायं यदा चास्मान्न बिभ्यति। यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा
इत्यवेक्ष्य महाप्राज्ञः कामानां फल्गुतां नृप। समाधाय मनो बुद्ध्या प्रत्यगृह्णाज्जरां सुतात्
ततो वर्षसहस्रान्ते ययातिरपराजितः।' दत्वा च यौवनं राजा पूरुं राज्येऽभिषिच्य च। अतृप्त एव कामानां पूरुं पुत्रमुवाच ह
त्वया दायादवानस्मि त्वं मे वंशकरः सुतः। पौरवो वंश इति ते ख्यातिं लोके गमिष्यति
ततः स नृपशार्दूल पूरुं राज्येऽभिषिच्य च। ततः सुचरितं कृत्वा भृगुतुङ्गे महातपाः
कालेन महता पश्चात्कालधर्ममुपेयिवान्। कारयित्वा त्वनशनं सदारः स्वर्गमाप्तवान्
ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः। कथं स शुक्रतनयां लेभे परमदुर्लभाम्
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन। आनुपूर्व्या च मे शंस राज्ञो वंशकरान्पृथक्
ययातिरासीन्नृपतिर्देवराजसमद्युतिः। तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा
तत्तेऽहं संप्रवक्ष्यामि पृच्छते जनमेजय। देवयान्याश्च संयोगं ययातेर्नाहुषस्य च
सुराणामसुराणां च समजायत वै मिथः। ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे
जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम्। पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे
ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम्। तत्र देवा निजघ्नुर्यान्दानवान्युधि संगतान्