प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि । न तेषां दुर्लभं किंचित्पुत्रतो धनतोपि वा ।। 20
दुर्गात्तारयसे दुर्गे तत्त्वं दुर्गा स्मृता जनैः । कान्तारेष्ववसन्नानां मग्रानां च महार्णवे। दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ।। 21
जलप्रतरणे चैव कान्तारेष्वटवीषु च। ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ।। 22
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या संततिर्मतिः। संध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कांतिःक्षमादया ।। 23
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम्। व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ।। 24
सोहं राज्यात्परिभ्रष्टः शरणं त्वां प्रपन्नवान् । प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ।। 25
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः। शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ।। 26
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् । उपगम्य तु राजानमिदं वचनमब्रवीत् ।। 27
शृणु राजन्महाबाहो मदीयं वचनं प्रभो। भविष्यत्यचिरादेव संग्रामे विजयस्तव ।। 28
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् । राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ।। 29
भ्रातृभिः सहितो राजन्प्रीतिं प्राप्स्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ।। 30
ये च संकीर्तयिष्यन्ति लोके विगतकल्मषाः। तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ।। 31
प्रवासे नगरे वाऽपि संग्रामे शत्रुसंकटे । अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ।। 32
ये स्मरिष्यन्ति मां राजन्यथाऽहं भवता स्मृता । न तेषां दुर्लभं किंचितस्मिँल्लोके भविष्यति ।। 33
इदं स्तोत्रवरं भक्त्या शृणुयाद्वा पठेत वा। तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ।। 34
मत्प्रसादाच्च वः सर्वान्विराटनगरे स्थितान् । न प्रज्ञास्यन्ति कुरको नरा वा तन्निवासिनः ।। 35
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिंदमम्। रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ।।] 36
ततस्तु ते पुण्यजलां शिवां शुभां महर्षिगन्धर्वनिषेवितोदकाम्। त्रिलोककान्तामवतीर्य जाह्नवीमृषींश्च देवांश्च पितृनतपर्यन् ।। 1
वरप्रदानं ह्यनुचिन्त्य पार्थिवे हुत्वाऽग्निहोत्रं कृतजप्यमङ्गलः । दिशं तथैन्द्रीमभितः प्रपेदिवान्कृताञ्जलिर्धर्ममुपाह्वयच्छनैः ।। 2
वरप्रदानं मम दत्तवान्पिता प्रसन्नचेता वरदः प्रजापतिः । जलार्थिनो मे तृषितस्य सोदरा मया प्रयुक्ता विविशुर्जलाशयम् ।। 3
निपातिता यक्षवरेण ते वने महाहवे वज्रभृतेव दानवाः । मया च गत्वा वरदो हि तोषितो विवक्षता प्रश्नसमुच्चयं गुरुः ।। 4
स मे प्रसन्नो भगवान्वरं ददौ परिष्वजंश्चाह तथैव सौहृदात्। वृणीष्व यद्वाञ्छसि पाण्डुनन्दन स्थितोऽन्तरिक्षे वरदोऽस्मि पश्य माम् ।। 5
स वै मयोक्तो वरदः पिता प्रभुः सदैव मे धर्मरता मतिर्भवेत्। इमे च जीवन्तु ममानुजाः प्रभो वयं स्वरूपं च जयं तथाऽऽप्नुमः ।। 6
क्षमा च कीर्तिश्च यथेप्सितं भवेद्व्रतं तु सत्यं च समाप्तिरेव च। वरो ममैषोस्तु यथाऽनुकीर्तितो न तन्मृषा देववृषो यथाऽब्रवीत् ।। 7
इत्येवमुक्त्वा धर्मात्मा धर्ममेवानुचिन्तयन्। तदैव तत्प्रसादेन रूपमेवाभवत्स्वयम् ।। 8
स वै द्विजातिस्तरुणस्त्रिदण्डभृत्कमण्डलूष्णीषधरो व्यजायत। सुरक्तमाञ्जिष्ठवराम्बरः शिखी पवित्रपाणिर्ददृशे तदाऽद्भुतम् ।। 9
तथैव तेषामपि धर्मचारिणां यथोचितार्हाभरणाम्बरस्रजः। क्षणेन राजन्नभवन्महात्मनां प्रशस्तधर्माग्र्यफलाभिकाङ्क्षिणाम् ।। 10
नवेन रूपेण विशांपतिर्युतस्त्वथर्वरूपेण बभौ प्रतापवान्। निबद्धवैडूर्यसितान्सकाञ्चनान्नृपस्तथाऽक्षान्परिवेष्ट्य वाससः ।। 11
ततो विराटं प्रथमं युधिष्ठिरो ददर्श दूरात्सुसमृद्धतेजसम्। अनन्ततेजोज्वलितं हुताशनं दुरासदं तीक्ष्णविषं यथोरगम् ।। 12
सभासदं प्राञ्जलिभिर्जनैर्वृतं विचित्रनानाविधशस्त्रपाणिभिः । उपायनौघैः प्रविशद्भिराचितं द्विजैश्च शिक्षाक्षरमन्त्रधारिभिः ।। 13