आगोपालाविपालेभ्यः कर्षकेभ्यः परंतप। आजग्मुर्नगराभ्याशं दर्शयन्तः पुनः पुनः ।। 58
अशीतिशतवर्पेयं माताऽस्माकमिहान्तिके । बहुकालपरीणामा मृत्योस्तु वशमेयुपी । न चाग्निसंस्कारमियं प्रापिता कुलधर्मतः ।। 59
यः समासाद्यते कश्चित्तस्मिन्देशे यदृच्छया। तमेवमृचुर्धर्मज्ञाः कुलधर्मो न ईदृशः ।। 60
विश्रावयन्तस्ते हृष्टा दिशः सर्वा व्यनादयन् । स्वर्गतेयमिहास्माकं जननी शोकविह्वला ।। 61
वने विचरमाणानां लुब्धानां वनचारिणाम्। कुलधर्मोऽयमस्माकं पूर्वैराचरितः पुरा ।। 62
एवं ते सुकृतं कृत्वा समन्तादवघुष्य च। भीमसेनोऽर्जुनश्चैव माद्रीपुत्रावुभावपि ।। 63
युधिष्ठिरश्च कृष्णा च राजपत्नी सुमध्यमा। ततो यथासमाज्ञप्तं नगरं प्राविशंस्तदा ।। 64
मत्स्यराज्ञो विराटस्य समीपं वस्तुमञ्जसा। अज्ञातचर्यां चरितुं वर्षं राष्ट्रे त्रयोदशम् ।। 65
अतश्छन्नानि नामानि चकारैषां युधिष्ठिरः । जयो जयेशो विजयो जयत्सेनो जयद्बलः
आपत्सु नामभिस्त्वेतैः समाह्वामः परस्परम् ।। 66 ।। ततो यथाप्रतिज्ञाभिः प्राविशन्नगरं महत्
अज्ञातचर्यां वत्स्यन्तो राष्ट्रे वर्षं त्रयोदशम् ।। 67
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः। अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ।। 1
यशोदागर्भसंभूतां नारायणवरप्रियाम् । नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ।। 2
कंसविद्रावणकरीमसुराणां क्षयंकरीम्। शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ।। 3
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम्। दिव्याम्बरधरां देवीं खङ्गखेटकधारिणीम् ।। 4
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् । तान्वै तारयते पापात्पङ्के गामिव दुर्बलाम् ।। 5
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसंभवैः । आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ।। 6
नमोस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ।। 7
चतुर्भुजे चतुर्वक्रे पीनश्रोणिपयोधरे। मयूरपिच्छवलये केयूराङ्गदधारिणि ।। 8
भासि देवि यथा पद्मा नारायणपरिग्रहः । स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ।। 9
कृष्णच्छविसमा कृष्णा संकर्षणसमानना । बिभ्रती विपुलौ बाहु शक्रध्वजसमुच्छ्रयौ ।। 10
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ।। 11
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ।। 12
मुकुटेन विचित्रेण केशबन्धेन शोभिना। भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ।। 13
विभ्राजसे चाऽऽबद्धेन भोगेनेवेह मन्दरः। ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ।। 14
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया। तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ।। 15
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ।। 16
जया त्वं विजया चैव संग्रामे च जयप्रदा। ममापि विजयं देहि वरदा त्वं च सांप्रतम् ।। 17
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम्। कालि कालि महाकालि शीधुमांसपशुप्रिये ।। 18
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी। भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ।। 19