इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् । ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ।। 28
नकुलं पुनराहूय धर्मराजो युधिष्ठिरः। उवाच येन संग्रामे सर्वशत्रूञ्जिघांससि ।। 29
सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् । सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ।। 30
तवानुरूपं सुकृतं चापमेतदलङ्कृतम्। तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ।। 31
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः। माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ।। 32
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ।। 33
सहदेवं च संप्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत्। कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ।। 34
येनैव शत्रून्समरे अधाक्षीररिमर्दन। तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ।। 35
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः । अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ।। 36
दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् । विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि । आयुधानि कलापांश्च गदाश्च निदधुः सह ।। 37
अथाब्रवीद्धर्मराजः सहदेवं परन्तपः। आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ।। 38
इदं गोमृगमभ्याशे गतसत्वमचेतनम् । एतदुत्कृत्य वै वीर धनूंपि परिवेष्टय ।। 39
एवमुक्तो महाबाहुः सहदेवो यथोक्तवत् । शमीमारुह्य त्वरितो धनूंपि परिवेष्टयत् ।। 40
शीतवातातपभयाद्वर्पत्राणाय दुर्जयः। तानि वीरो यथा जानन्निरावाधानि सर्वशः । पुनः पुनः सुसंवेष्ट्य कृत्वा सुकृतमावरम् ।। 41
यत्र चापश्यत स वै तिरोवर्पाणि वर्पति। तत्र तानि दृढैः पाशैः सुगाढं पर्यवन्धत ।। 42
ततः परमदूरस्थमुञ्छवृत्तिकलेवरम्। प्रायोपवेशनाच्छुष्कं स्नायुचर्मास्थिसंयुतम् ।। 43
तच्चानीय धनुर्मध्ये निबबन्धु पाण्डवाः । उपायकुशलाः सर्वे प्रणदन्तः समब्रुवन् ।। 44
अस्य बद्धस्य दौर्गन्ध्यान्मनुष्या वनचारिणः। दूरात्परिहरिष्यन्ति सशवेयं शमी इति ।। 45
अथाब्रवीन्महाराजो धर्मात्मा स युधिष्ठिरः। रञ्जुभिः सुकृतं प्राज्ञ विनिर्वध्नीहि पाण्डव ।। 46
यानि चात्र विशालानि रूढमूलानि मन्यसे। तेपामुपरि बध्नीहि इदं विप्रकलवरम् ।। 47
तच्छ्रुत्वा सहदेवस्तु पर्यबध्नत तच्छवम् ।। 48
युधिष्ठिरः शुचिर्भूत्वा मनसाऽभिप्रणम्य च। ब्रह्माणामिन्द्रं वरदं कुबेरं वरुणानिलौ ।। 49
रुद्रं यमं च विष्णुं च सोमार्कौ धर्ममेव च । पृथिवीमन्तरिक्षं च दिशश्चोपदिशस्तथा । वसूश्चं मरुतश्चैव ज्वलनं चातितेजसम् ।। 50
दिवाचरा रात्रिचराणि वाऽपि यानीह भूतान्यनुकीर्तितानि । तेभ्यो नमस्कृत्य च सुव्रतेभ्यः प्रणम्य तेपां शरणं गतोऽहम् ।। 51
सर्वायुधानीह महाबलानि न्यासं महादेवसमीपतो वै। न्यस्याम्यहं वायुसमीपतश्च वनस्पतीनां च सपर्वतानाम् ।। 52
एष न्यासो मया दत्तः सोममूर्यानिलान्तिके। मम पार्थस्य वा देयं पूर्णे वर्षे त्रयोदशे ।। 53
नेदं भीमे प्रदातव्यमयं क्रुद्धो वृकोदरः। आमर्षान्नित्यसंक्रुद्धो धृतराष्ट्रसुतान्प्रति। अपूर्णकाले प्रहरेत्क्रोधसंजातमत्सरः ।। 54
पुनः प्रवेशो नः स्यात्तु वनवासाय सर्वदा । समये परिपूर्णे तु धार्तराष्ट्रान्निहन्महे ।। 55
एष चार्थश्च धर्मश्च कामः कीर्तिरलं यशः। मदायत्तमिदं सर्वं जीवितं च न संशयः ।। 56
दैवतेभ्यो नमस्कृत्य शमीं कृत्वा प्रदक्षिणम्। नगरं गन्तुमायाताः सर्वे ते भ्रातरः सह ।। 57