इयं वने मनुष्येन्द्र महती दृश्यते शमी। भीमशाखा दुरारोहा श्मशानस्य समीपतः ।। 8
उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते । विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता ।। 9
स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ।। 10
समीपे च श्मशानस्य गृहं नास्य विशेषतः। समासज्यायुधान्यस्यां गच्छामो नगरं नृप ।। 11
न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ।। 12
धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम्। उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् । अस्यामायुधमासज्य गच्छाम नगरं वयम् ।। 13
एवं परिहरिष्यन्ति मनुष्या वनचारिणः । अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ।। 14
एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः। प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ ।। 15
तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः । आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ।। 16
ततो युधिष्ठिरो राजा सहदेवमुवाच ह। आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ।। 17
इति संदिश्य तं पार्थः पुनरेव धनञ्जयम् । अब्रवीदायुधानीह निधातुं भरतर्षभः ।। 18
येन देवान्मनुष्यांश्च पिशाचोरगराक्षसान् । निवातकवचांश्चापि पौलोमांश्च परंतपः । कालकेयांश्च दुर्धाषान्सर्वांश्चैकरथोऽजयत् ।। 19
स्फीताञ्जनपदांश्चान्यानजयत्कुरुनन्दनः। तदुदग्रं महाघोरं सपत्नगणमूदनम्। अपज्यमकरोत्पार्थो गाण्डीवं च भयंकरम् ।। 20
येन वीरः कुरुक्षेत्रमभ्यरक्षत्परंतपः । जृम्भिते च धनुःश्रेष्ठे न्यासार्थं नृपसत्तमः ।। 21
धर्मपुत्रो महातेजाः सर्वलोकवशंकरम्। भुजङ्गभोगसदृशं मणिकाञ्चनभूषितम् ।। 22
वित्रासनं दानवानां राक्षसानां च नित्यशः । धनूरत्नं महातेजा जृम्भयामास पाण्डवः ।। 23
पाञ्चालान्येन संग्रामे भीमसेनोऽजयत्पुरा । प्रत्यषेधद्बहूनेकः सपत्नांश्चापि दिग्जये ।। 24
निशम्य यस्य विष्कारं विद्रवन्ति रणे परे । पर्वतस्येव दीर्णस्य विस्फोटमशनेरिव ।। 25
सैन्धवं येन राजानं जित्वा क्रुद्धः परामृशत् । येन क्रोधवशाञ्जघ्ने पर्वते गन्धमादने ।। 26
दिव्यं सौगन्धिकं पुष्पं येनाजैषीत्स पाण्डवः। 0
इन्द्राशनिसमस्पर्शं वज्रहाटकभूषितम् । ज्यापाशं धनुषस्तस्य भीमसेनोऽवतारयत् ।। 28
नकुलं पुनराहूय धर्मराजो युधिष्ठिरः। उवाच येन संग्रामे सर्वशत्रूञ्जिघांससि ।। 29
सुराष्ट्राञ्जितवान्येन शार्ङ्गगाण्डीवसन्निभम् । सुवर्णविकृतं सारमिन्द्रायुधनिभं वरम् ।। 30
तवानुरूपं सुकृतं चापमेतदलङ्कृतम्। तद्व्यंसयित्वा ज्यापाशं निधातुं धनुराहर ।। 31
अजयत्पश्चिमामाशां धनुषा येन पाण्डवः। माद्रीपुत्रो महाबाहुस्ताम्रास्यो मितभाषिता ।। 32
कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ।। 33
सहदेवं च संप्रेक्ष्य पुनर्धर्मसुतोऽब्रवीत्। कलिङ्गान्द्राक्षिणात्यांश्च मागधांश्चाजिशोभनः ।। 34
येनैव शत्रून्समरे अधाक्षीररिमर्दन। तत्स्रंसयित्वा ज्यापाशं निधातुं धनुराहर ।। 35
दक्षिणां दक्षिणाचारो दिशं येनाजयत्प्रभुः । अपज्यमकरोद्वीरः सहदेवस्तदायुधम् ।। 36
दीप्तान्खण्डांश्च सुदृढान्सुतीक्ष्णान्कनकत्सरून् । विविधान्क्षुरनाराचान्निस्त्रिंशांश्च शरानपि । आयुधानि कलापांश्च गदाश्च निदधुः सह ।। 37