पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः । वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च ।। 16
व्यक्तं दूरे विराटम...राजधानी भविष्यति। वसामेहापरां रात्रिं बलवान्मे परिश्रमः ।। 17
इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन। मुहूर्तं परिगृह्यैनां घाहुभ्यां नकुल व्रज ।। 18
ततोऽदूरे विराटस्य नगरं भरतर्षभ । राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ।। 19
पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने। अटवी च मया दूरं धृता मृगवधेप्सुना ।। 20
विषमा ह्यतिदुर्गा च वेगवत्परिधावता। सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे ।। 21
सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय। राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् ।। 22
अहमप्यस्मि तृषितः क्षुधया परिपीडितः। परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे ।। 23
एहि वीर विशालाश्च वीरसिंह इवार्जुन । इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् ।। 24
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज । राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ।। 25
गुरोर्वचनमाज्ञाय संप्रहृष्टो जितेन्द्रियः। बाहुभ्यां परिगृह्याथ राजपुत्रीमनिन्दिताम् । प्रवव्राज महाबाहुरर्जुनः प्रियदर्शनाम् ।। 26
जटिलो वल्कलधरः शततूणीधनुर्धरः। स्कन्धे कृत्वा वरारोहां बालामायतलोचनाम्
आनीय नगराभ्याशमवातारयदर्जुनः ।। 27
स राजधानीं संप्राप्य पार्थिवोऽर्जुनमब्रवीत्। इमानि पुरुषव्याघ्र आयुधानि परंतप। कस्मिन्न्यासयितव्यानि गुप्तिश्चैषां कथं भवेत् ।। 1
सायुधा हि वयं तात प्रवेक्ष्यामः पुरं यदि। समुद्वेगं जनस्यास्य करिष्यामो न संशयः ।। 2
गाण्डीवं हि नरव्याघ्र त्रिषु लोकेषु विश्रुतम्। कथं नाविष्कृताः स्यामो धार्तराष्ट्रस्य मारिष ।। 3
यदीद.. धनुरादाय चरेम सजने पुरे। क्षिप्र नः प्रतिजानीयुर्मनुष्या नात्र संशयः ।। 4
एकस्मिन्नपि विज्ञाते समयं नो व्यतीत्य च । भूयो द्वादशवर्षाणि प्रविशेम वनं वयम् ।। 5
तस्मात्सर्वाणि शस्त्राणि प्रच्छाद्यान्यत्र यत्र वा । प्रविशेम पुरश्रेष्ठं तथा सम्यक्कृतं भवेत् ।। 6
अजातशत्रोर्वचनं श्रुत्वा चैव महायशाः। उवाच धर्मपुत्रं तमर्जुनः परवीरहा ।। 7
इयं वने मनुष्येन्द्र महती दृश्यते शमी। भीमशाखा दुरारोहा श्मशानस्य समीपतः ।। 8
उत्पथे चापि जातेयं मनुष्यैर्न निषेव्यते । विपुलाऽऽकीर्णशाखा च वायसैरुपसेविता ।। 9
स्नेहानुबद्धां पश्यामि दुरारोहामिमां शमीम् ।। 10
समीपे च श्मशानस्य गृहं नास्य विशेषतः। समासज्यायुधान्यस्यां गच्छामो नगरं नृप ।। 11
न चास्यां चारयिष्यन्ति मनुष्याः पार्थ केचन ।। 12
धनुर्भिः पुरुषं कृत्वा चर्मकेशास्थिसंवृतम्। उद्बन्धमिव कृत्वा च धनुर्ज्यापाशसंवृतम् । अस्यामायुधमासज्य गच्छाम नगरं वयम् ।। 13
एवं परिहरिष्यन्ति मनुष्या वनचारिणः । अत्रैवं नावबुध्यन्ते मनुष्याः केचिदायुधम् ।। 14
एवमुक्त्वा स राजानं धर्मात्मानं धनञ्जयः। प्रचक्रमे निधानाय शश्त्राणां भरतर्षभ ।। 15
तानि सर्वाणि संनह्य पञ्च पञ्चाचलोपमाः । आयुधानि कलापांश्च निस्त्रिंशानतुलप्रभान् ।। 16
ततो युधिष्ठिरो राजा सहदेवमुवाच ह। आरुह्येमां शमीं वीर निधत्स्वेहायुधानि नः ।। 17