संवत्सरमिमं तावदेवंशीला बुभूषथः । ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ
तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम्। प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परंतपाः
तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत्। भवाय राज्यलाभाय वीर्याय विजयाय च
ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च। स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च
स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान्। इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता। युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः
तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम्। अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ।। 1
अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन। कुन्तीमृते मातरं नः पितरं च यशस्विनम् ।। 2
यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति। तारणाय तु दुःखस्य प्रस्थानाय भवाय च ।। 3
तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत्। सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा। ततः पावकमुञ्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् ।। 4
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः। प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् ।। 5
ते वीरा बद्धनिस्त्रिंशा धनुर्बाणकलापिनः । अगच्छन्भीमधन्वानः काम्यकाद्यमुनां नदीम् ।। 6
उत्तरेण दशार्णानां पाञ्चालान्दक्षिणेन तु। अन्तरेण यकृल्लोम्नः शूरसेनांश्च पाण्डवाः ।। 7
ते तस्या दक्षिणं तीरमन्वगच्छन्पदातयः । ततः प्रत्यक्प्रयातास्ते संक्रामन्तो वनाद्वनम् ।। 8
वसाना वनदुर्गेषु रमणीयेषु धन्विनः । पल्वलेषु च रम्येषु नदीनां संगमेषु च।। 9
द्रुमान्नानाविधाकारान्नानाविधलताकुलान् । कुसुमाढ्यान्मनःकान्ताञ्शुभगन्धान्मनोरमान् ।। 10
पार्था निरीक्षमाणाश्च तान्द्रुमान्पुष्पशालिनः। जिघ्रन्तः पुष्पगन्धांश्च फलगन्धान्मनोरमान् ।। 11
विध्यन्तो मृगजातानि महेप्वासा महाबलाः । उपित्वा द्वादशसमा वने परपुरंजयाः । लुब्धान्ब्रुवाणा मात्स्यस्य विपयं प्राविशंस्तदा ।। 12
तत्र धौम्यं महेप्वासाः पाण्डवेया व्यसर्जयन् । अग्निहोत्रं परिचरन्सोऽबुद्धोऽवसदाश्रमे ।। 13
ततस्तेषु प्रयातेषु पाण्डवेषु महात्मसु। इन्द्रसेनमुखाश्चैव यथोक्तं प्राप्य निर्वृताः। रथानश्वांश्च रक्षन्तः सुखमूषुः सुसंवृताः ।। 14
ततो जनपदं प्राप्य कृष्णा राजानमब्रवीत् ।। 15
पश्यैकपद्यो दृश्यन्ते क्षेत्रे गोष्ठं समाश्रिताः । वृक्षांश्चोपवनोपेतान्ग्रामाणां नगरस्य च ।। 16
व्यक्तं दूरे विराटम...राजधानी भविष्यति। वसामेहापरां रात्रिं बलवान्मे परिश्रमः ।। 17
इमां कमलपत्राक्षीं द्रौपदीं माद्रिनन्दन। मुहूर्तं परिगृह्यैनां घाहुभ्यां नकुल व्रज ।। 18
ततोऽदूरे विराटस्य नगरं भरतर्षभ । राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ।। 19
पूर्वाह्णे मृगयां कृत्वा मया विद्धा मृगा वने। अटवी च मया दूरं धृता मृगवधेप्सुना ।। 20
विषमा ह्यतिदुर्गा च वेगवत्परिधावता। सोहं धर्माभितप्तो वै नैनामादातुमुत्सहे ।। 21
सहदेव त्वमादाय मुहूर्तं द्रौपदीं नय। राजधान्यां निवत्स्यामः सुमुक्तमिव नो वनम् ।। 22
अहमप्यस्मि तृषितः क्षुधया परिपीडितः। परिश्रान्तश्च भद्रं ते नैनामादातुमुत्सहे ।। 23
एहि वीर विशालाश्च वीरसिंह इवार्जुन । इमां कमलपत्राक्षीं द्रौपदीं द्रुपदात्मजाम् ।। 24
परिगृह्य मुहूर्तं त्वं बाहुभ्यां कुशलं व्रज । राजधान्यां निवत्स्यामः प्रमुक्तमिव नो वनम् ।। 25