उद्धतानां च यो वेषः कुहकानां च यो भवेत् । राजवेषं च विस्पष्टं सेवमानो न वर्धते। इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः
अपुंभिश्चैव पुंभिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः । शक्ये सति न संभाषां जातु कुर्वीत कर्हिचित्
प्रतिसंभाषमाणो हि त्रिभिरेतैरचेतनः। श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः
ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव। तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित्
न चान्याचरितां भूमिमसंदिष्टो महीपतेः। उपसेवेत मेधावी यो राजवसतिं वसेत्
न च संदर्शने राज्ञां प्रबन्धमभिसंजपेत् । अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम्
अर्थकामा च या नारी राजानं स्यादुपस्थिता। अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः
तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः। तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः
न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता । स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम्
न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत्। न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत्
भ्रुकुटिं च न कुर्वीत न चाङ्गुष्ठैर्लिखेन्महीम्। न च गाढं विजृम्भेत जातु राज्ञः समीपतः
न प्रशंसेन्ना चासूयेत्प्रियेषु च हितेषु च । स्तूयमानेषु वा तत्र दूष्यमानेषु वा पुनः
अथ संदृश्यमानेषु प्रियेषु च हितेषु च। श्रूयमाणेषु वाक्येषु वर्णयेदमृतं यथा
न राज्ञः प्रतिकूलानि सेवमानः सुखी भवेत्। पुत्रो वा यदि वा भ्राता यद्यप्यात्मसमो भवेत्
अप्रमत्तो हि राजानं रञ्जयेच्छीलसंपदा। उत्थानेन तु मेधावी शौचेन विविधेन च
स्नानं हि वस्त्रशुद्धिश्च शारीरं शौचमुच्यते। असक्तिः प्राकृतार्थेषु द्वितीयं शौचमुच्यते
राजा भोजो विराट् सम्राट् क्षत्रियो भूपतिर्नृपः । य एतैः स्तूयते शब्दैः कस्तं नार्चितुमर्हति
तस्माद्भक्त्या च युक्तः सन्सत्यवादी जितेन्द्रियः । मेधावी धृतिमान्प्राज्ञः संश्रयीत महीपतिम्
कृतज्ञं प्राज्ञमक्षुद्रं दृढभक्तिं जितेन्द्रियम् । वर्धमानं स्थितं स्थाने संश्रयीत महीपतिम्
एष वः समुदाचारः समुद्दिष्टो यथाविधि । यथार्थान्संप्रपत्स्यन्ते पार्थ राजोपजीविनः
संवत्सरमिमं तावदेवंशीला बुभूषथः । ततः स्वविषयं प्राप्य यथाकामं चरिष्यथ
तं तथेत्यब्रुवन्पार्थाः पितृकल्पं यशस्विनम्। प्रहृष्टाश्चाभिवाद्यैनमुपातिष्ठन्परंतपाः
तेषां प्रतिष्ठमानानां मन्त्रांश्च ब्राह्मणोऽजपत्। भवाय राज्यलाभाय वीर्याय विजयाय च
ततोऽब्रवीदसौ विप्रो वाचमाशीः प्रयुज्य च। स्वद्रव्यप्रतिलाभाय शत्रूणां मर्दनाय च
स्वस्ति वोस्तु शिवः पन्था द्रक्ष्यामि पुनरागतान्। इत्युक्ता हृष्टमनसो गुरुणा तेन धीमता। युधिष्ठिरमुखाः सर्वे गन्तुं समुपचक्रमुः
तेऽग्निं प्रदक्षिणं कृत्वा ब्राह्मणं च पुरोहितम्। अभिवाद्य ततः सर्वे प्रस्थातुमुपचक्रमुः ।। 1
अनुशिष्टोस्मि भद्रं ते नैतद्वक्ताऽस्ति कश्चन। कुन्तीमृते मातरं नः पितरं च यशस्विनम् ।। 2
यदेवानन्तरं कार्यं तद्भवान्वक्तुमर्हति। तारणाय तु दुःखस्य प्रस्थानाय भवाय च ।। 3
तेषां प्रतिष्ठमानानां धौम्यो मन्त्रानथाजपत्। सर्वविघ्नप्रशमनानर्थसिद्धिकरांस्तथा। ततः पावकमुञ्ज्वाल्य मन्त्रहव्यपुरुस्कृतम् ।। 4
याज्ञसेनीं पुरस्कृत्य सर्व एव महारथाः। प्राद्रवन्सह धौम्येन बद्धशस्त्रा वनाद्वनम् ।। 5