हुल्योपस्थितयोः पश्य मम चान्यस्य चोभयोः । अन्यं पुष्णाति मद्धीनमिति धीरो न मुह्यति
श्रेयांसं हि परित्यज्य वैद्यं कर्मणिकर्मणि । पापीयांसं प्रकुर्वीरञ्शीलमेषां तथाविधम्
नैषां दारेषु कुर्वीत प्राज्ञो मैत्रीं कथंचन । रक्षणं तु न सेवेत यो राजवसतिं वसेत्
यदा ह्यभिसमीक्षेत प्रेष्यं स्त्रीभिः समागतम् । बुद्धिः परिभवेत्तस्य राजा शङ्केत वा पुनः
शङ्कितस्य पुनः स्त्रीषु कस्य भृत्यस्य भूमिपः। जीवितं साधु मन्येत प्रकृतिस्थो बलात्कृतः
हर्षवस्तुषु चाप्यत्र वर्तमानेषु केषु चित्। नातिगाढं प्रहृष्येत तान्येवास्यानुपूजयेत् ।। 47
हर्षाद्धि मन्दः पुरुषः स्वैरं कुर्वीत वैकृतम् । तदस्यान्तःपुरे वृत्तमीक्षां कुर्वीत भूमिपः
अन्तःपुरगतं ह्येनं स्त्रियः क्लीबाश्च सर्वतः । वर्तमानं यथावच्च कुत्सयेयुरसंशयम्
तस्माद्गम्भीरमात्मानं कृत्वा हर्षं नियम्य च। नित्यमन्तःपुरे राज्ञो न वृत्तं कीर्तयेद्बहिः
यथा हि सुमहामन्त्रो भिद्यमानो हरेत्सुखम्। एवमन्तःपुरे वृत्तं श्रूयमाणं बहिर्भवेत्
या तु वृत्तिरबाह्यानां बाह्यानामपि केवलम्। उभयेषां समस्तानां शृणु राजोपजीविनाम्
न स्त्रियो जातु मन्येत बाह्ये वाभ्यन्तरेऽपि वा । अनुजीविनां नरेन्द्रस्तु सृजेद्धि सुमहद्भयम्
मत्वाऽस्य प्रियमात्मानं राजरत्नानि राजवत्। अराजा राजयोग्यानि नोपयुञ्जीत पण्डितः
अराजानं हि रत्नानि राजकान्तानि राजवत्। भुञ्जानं तं नरं राजा न तितिक्षेत जीवितम्
तस्मादव्यक्तभोगेन भोक्तव्यं भूतिमिच्छता । तुल्यभोगं हि राजा तु भृत्यं कोपेन योजयेत्
न चापत्येन संप्रीतिं राज्ञः कुर्वीत केनचित् । अधिक्षिप्तमनर्थं च द्वेष्यं च परिवर्जयेत्
एतां हि सेवमानस्य नरसीमां चतुर्विधाम्। द्विधा विच्छिद्यते मूलं राजमूलोपसेविनः
एतैस्तु विपरीता या नरसीमा नराधमैः । तथा कुर्वीत संसर्गं न विरोधं कथंचन
बन्धुभिश्च नरेन्द्रस्य बलवद्भिश्च मानवैः । साधु मन्येत संसर्गं न विरोधं कथंचन
ताभ्यां तु नरसीमाभ्यां विरुद्धस्याल्पतेजसः । प्रथमं छिद्यते मूलं द्वितीयं जायते भयम्
उद्धतानां च यो वेषः कुहकानां च यो भवेत् । राजवेषं च विस्पष्टं सेवमानो न वर्धते। इतराभ्यां तु वेषाभ्यां परिहास्येत बान्धवैः
अपुंभिश्चैव पुंभिश्च स्त्रीभिः स्त्रीदर्शिभिर्नरैः । शक्ये सति न संभाषां जातु कुर्वीत कर्हिचित्
प्रतिसंभाषमाणो हि त्रिभिरेतैरचेतनः। श्येनः पेशीमिवादत्ते पुरुषो भूतिमात्मनः
ये च राज्ञाऽभिसत्कारं लभेरन्कारणादिव। तैश्च सामन्तदूतैश्च न संसज्येत कर्हिचित्
न चान्याचरितां भूमिमसंदिष्टो महीपतेः। उपसेवेत मेधावी यो राजवसतिं वसेत्
न च संदर्शने राज्ञां प्रबन्धमभिसंजपेत् । अपि चैतद्दरिद्राणां व्यलीकस्थानमुत्तमम्
अर्थकामा च या नारी राजानं स्यादुपस्थिता। अनुजीवी तथायुक्तां निध्यायन्दुष्यते च सः
तस्मान्नारीं न निध्यायेत्तथायुक्तां विचक्षणः। तथा क्षुतं च वातं च निष्ठीवं चाचरेच्छनैः
न नर्मसु हसेज्जातु मूढवृत्तिर्हि सा स्मृता । स्मितं तु मृदुपूर्वेण दर्शयीत प्रसादजम्
न चाक्षौ न भुजौ जातु न च वाक्यं समाक्षिपेत्। न च तिर्यगवेक्षेत चक्षुर्भ्यां सम्यगाचरेत्