कारूषमथ शर्यातिं तथा चैवाष्टमीमिलाम्। पृष्टध्रं नवमं प्राहुः क्षत्रधर्मपरायणम्
नाभागारिष्टदशमान्मनोः पुत्रान्प्रचक्षते। पञ्चाशत्तु मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ
अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम्। पुरूरवास्ततो विद्वानिलायां समपद्यत
सा वै तस्याभवन्माता पिता चैवेति नः श्रुतम्। त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः
अमानुषैर्वृतः सत्वैर्मानुषः सन्महायशाः। विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः
जहार च स विप्राणां रत्नान्युत्क्रोशतामपि। सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह
अनुदर्शं ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ। ततो महर्षिभिः क्रुद्धैः सद्यः शप्तो व्यनश्यत
लोभान्वितो बलमदान्नष्टसंज्ञो नराधिपः। स हि गन्धर्वलोकस्थानुर्वश्या सहितो विराट्
आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा। षट् सुता जज्ञिरे चैलादायुर्धीमानमावसुः
दृढायुश्च वनायुश्च शतायुश्चोर्वशीसुताः। नहुषं वृद्धशर्माणं रजिं गयमनेनसम्
स्वर्भानवी सुतानेतानायोः पुत्रान्प्रचक्षते। आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः
राज्यं शशास सुमहद्धर्मेण पृथिवीपते। पितॄन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान्
नहुषः पालयामास ब्रह्मक्षत्रमथो विशः। स हत्वा दस्युसंघातानृषीन्करमदापयत्
पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान्। कारयामास चेन्द्रत्वमभिभूय दिवौकसः
तेजसा तपसा चैव विक्रमेणौजसा तथा। `विश्लिष्टो नहुषः शप्तः सद्यो ह्यजगरोऽभवत्'। यतिं ययातिं संयातिमायातिमयतिं ध्रुवम्
नहुषो जनयामास षट् सुतान्प्रियवादिनः। यतिस्तु योगमास्थाय ब्रह्मीभूतोऽभवन्मुनिः
ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः। स पालयामास महीमीजे च बहुभिर्मखैः
अतिभक्त्या पितॄनर्चन्देवांश्च प्रयतः सदा। अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः
तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः। देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे
देवयान्यामजायेतां यदुस्तुर्वसुरेव च। द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां च जज्ञिरे
स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन्। जरामार्च्छन्महाघोरां नाहुषो रूपनाशिनीम्
जराऽभिभूतः पुत्रान्स राजा वचनमब्रवीत्। यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत
यौवनेन चरन्कामान्युवा युवतिभिः सह। बिहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः
तं पुत्रो दैवयानेयः पूर्वजो वाक्यमब्रवीत्। किं कार्यं भवतः कार्यमस्माकं यौवनेन ते
ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम्। यौवनेन त्वदीयेन चरेयं विषयानहम्
यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः। कामार्थः परिहीणोऽयं तप्येयं तेन पुत्रकाः
मामकेन शरीरेण राज्यमेकः प्रशास्तु वः। अहं तन्वाऽभिनवया युवा काममवाप्नुयाम्
ते न तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम्। तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः
राजंश्चराभिनवया तन्वा यौवनगोचरः। अहं जरां समादाय राज्ये स्थास्यामि तेज्ञया
एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात्। संचारयामास जरां तदा पुत्रे महात्मनि