तूष्णीं त्वेनमुपासीत काले समभिपूजयेत्
असूयन्ति हि राजानो जनाननृतवादिनः। तथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा
विदिते चास्य कुर्वीत कार्याणि सुलघून्यपि। एवं विचरतो राज्ञि न क्षतिर्जायते क्वचित्
पाण्डवाग्निरयं लोके सर्वशस्त्रमयो महान । भर्ता गोप्ता च भूतानां राजा पुरुषविग्रहः
सर्वात्मना वर्तमानं यथा दोषो न संस्पृशेत् । राजानमुपतिष्ठन्तं तस्य वृत्तं निबोधत
क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् । नावमन्येत मेधावी कृशानपि कदाचन
एतत्रयं च पुरुषं निर्दहेदवमानितम्। राजा तस्माद्बुधैर्नित्यं पूजनीयः प्रयत्नतः
नातिवर्तेत मर्यादां पुरुषो राजसंमतः। व्यवहारं पुनर्लोके मर्यादां पण्डिता विदुः
न हि पुत्रं न नप्तारं न भ्रातरमरिन्दम। समतिक्रान्तमर्यादं पूजयन्ति पराधिपाः
गच्छन्नपि परां भूतिं भूमिपालनियोजितः। जात्यन्ध इव मन्येत मर्यादामनुचिन्तयन्
धृष्टो द्वारं सदा पश्यन्न च राजसु विश्वसेत् । तदेवासनमन्विच्छेद्यत्र नाभिलषेत्परः
यत्रोपविष्टः संकल्पं नोपहन्याद्बलीयसः । तदासनं राजकुले ईप्सेत पुरुषो वसन्
यथैनं यत्र चासीनं शङ्कयेद्दुष्टचरिणम् । न तत्रोपविशेज्जातु यो राजवसतिं वसेत्
स्वभूमौ काममासीत तिष्ठेद्वा राजसन्निधौ। न त्वेवासनमन्यस्य प्रार्थयेत कदाचन
परासनगतं ह्येनं परस्य परिचारकाः । परिषद्यपकर्षेयुः परिहास्येत शत्रुभिः
नित्यं विप्रतिषिद्धं तत्पुरस्तादासनं मतम् । अर्थार्थं हि यदा भृत्यो राजानमुपतिष्ठते
दक्षिणं वाऽथ वामं वा भागमाश्रित्य पण्डितः। तिष्ठेद्विनीतवद्राजन्न पुरस्तान्न पृष्ठतः। राक्षिणामात्तशस्त्राणां पश्चात्स्थानं विधीयते
मातृगोत्रे स्वगोत्रे वा नाम्ना शीलेन वा पुनः । संग्रहार्थं मनुष्याणां नित्यमाभाषिता भवेत्
पूज्यमानोपि यो राज्ञा नरो न प्रतिपूजयेत्। नैनमाराधयेज्जातु शास्ता शिष्यानिवालसान्
नास्य युग्यं न पर्यङ्कं नासनं न रथं तथा। आरोहेत्संमतोऽस्मीति यो राजवसतिं वसेत्
यो वै गृहेभ्यः प्रवसन्क्रियमाणमनुस्मरन् । उत्थाने नित्यसंकल्पो निस्तन्द्रीः संघतात्मवान्
परीतः क्षुत्पिपासाभ्यां विहाय परिदेवनम् । दुःखेन सुखमन्विच्छेद्यो राजवसतिं वसेत्
करिष्याम्यहमित्येव यः स राजसु सिध्यति
उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा । आदिष्टो न विकल्पेत यः स राजसु सिद्ध्यति
नैव प्राप्तोऽवमन्येत सदाऽमात्यो विशारदः । मानं प्राप्तो न हृष्येत न व्यथेच्च विमानितः । ऋदुर्मृदुः सत्यवादो यः स राजसु सिद्ध्यति
नैव लाभाद्धर्षमियान्न व्यथेच्च विमानितः। समः पूर्णतुलेव स्याद्यो राजवसतिं वसेत्
अल्पेच्छो धृतिमान्राजञ्छायेवानुगतः सदा। दक्षः प्रदक्षिणो धीरः स राजवसतिं वसेत्
इतिहासपुराणज्ञः कुशलः सत्कथासु च। वदान्यः सत्यवाक्वापि यो राजवसतिं वसेत्
न मिथो भाषितं राज्ञो मनुष्येषु प्रकाशयेत् । यं चासूयन्ति राजानः पुरुषं नो वदेच्च तम्
नैषां कर्मसु संयुक्तो धनं किंचिदुपस्पृशेत्। प्राप्नुयादाददानो वा बन्धं वा वधमेव वा