लक्षणं चरितं चैव गवां यच्चापि मङ्गलम् । सत्सर्वं मे सुविदितमन्यच्चापि विशांपते
वृषभानपि जानामि राजन्पूजितलक्षणान्। येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते
सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे। विराटनगरे गूढो रंस्येऽहं तेन कर्मणा
तोषयिष्ये च राजानां मा भूच्चिन्ता तवानघ । न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव। इत्येतद्वः प्रतिज्ञातं विचरिष्याम्यहं यथा
केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति। न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः
माल्यागन्धानलङ्कारान्वस्त्राणि विविधानि च। एतान्येवाभिजानाति यथाजाता च भामिनी
पतिव्रता महाभागा कथं नु विचरिष्यति। इयं तु नः प्रिया भार्या प्राणेभ्योपि गरीयसी
मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च । सुकुमारी सुशीला च राजपुत्री यशस्विनी । कथं वत्स्यति कल्याणी विराटनगरे सती
अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव। यथा ते मत्कृते शोको न भवेन्नृपते शृणु। यथा तु मां न जानन्ति यत्करिष्याम्यहं प्रभो
छन्ना वत्स्याम्यहं यन्मां न विजानन्ति केचन। वृत्तं तच्च समाख्यास्ये शर्म तेस्तु विशांपते
सैरन्ध्रीजातिसंपन्ना नाम्नाऽहं व्रतचारिणी
सैरन्ध्र्यो रक्षिताः स्त्रीणां भुजिष्याः सन्ति भारत । एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः
साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि। प्रमदाहरिका लोके पुरुषाणां प्रवासिनाम्
युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका। उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत। आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि
नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि। कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् । सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम्
अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी। इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा
यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः। कुर्यास्तथा त्वं कल्याणि लक्षयेयुर्न ते जनाः
कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा। न पापमभिजानासि साध्वी साधुव्रते स्थिता
कर्माण्युक्तानि युष्माभिर्यानि तानि चरिष्यथ। मम चापि यथा बुद्धिरुचिता हि विनिश्चयात्
पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु। सूतपौरोगवैः सार्धं द्रुपदस्य निवेशने
इन्द्रसेनमुखाश्चेमे रथानादाय केवलान् । यान्तु द्वारवतीं शीघ्रमिति मे वर्तते मतिः
इमाश्च नार्यो द्रौपद्याः सर्वाश्च परिचारिका । पाञ्चालानेव गच्छन्तु सूतपौरोगवैः सह
सर्वैरपि च वक्तव्यं न प्राज्ञायन्त पाण्डवाः । अर्धरात्रे महात्मानो भिक्षादान्ब्राह्मणानपि। गता ह्यस्मानपाहाय सर्वे द्वैतवनादिति
एवं तेऽन्योन्यमामन्त्र्य कर्माण्युक्त्वा पृथक्पृथक्। धौम्यमामन्त्रयामासुः स च तान्मन्त्रमब्रवीत्
तानन्वशात्स धर्मात्मा सर्वधर्मविशेषवित् । धौम्यः पुरोहितो राजन्पाण्डवान्पुरुषर्षभान्
विदितं वै यथा सर्वं लोके वृत्तमिदं नृप। विदिते चापि वक्तव्यं सुहृद्भिरनुरागतः
अतोऽहमभिवक्ष्यामि हेतुमात्रं निबोधत। हन्तेमां राजवसतिं राजपुत्रा ब्रवीमि वः। यथा राजकुलं प्राप्य चरन्प्रोष्य न रिष्यति
दुर्वासमेव कौरव्य जातेन कुरुवेश्मनि । अमानितेन मानार्ह गूढेन परिवत्सरम्
दिष्टद्वारो लभेद्द्रष्टुं राजस्वेषु न विश्वसेत्। न चानुशिष्याद्राजानमपृच्छन्तं कदाचन