किं तु कार्यवशादेतदाचरिष्यामि कुत्सितम्
बाहू मे भरतश्रेष्ठ महालाञ्छनलक्षितौ । ज्याघातेन महान्तौ मे गूहितुं नान्यथोत्सहे
उभौ कम्बू प्रतीमुच्य कुण्डले परिपातुके । वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः । प्रजानां समुदाचारं बहुनर्मकृतं वदन् । रमयिष्यामि राजानमन्यं चान्तःपुरे जनम्
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा । शिक्षयिष्याम्यहं राजन्विराटनगरे स्त्रियः
स्त्रीभावसमुदाचारान्नृत्तगीतकथाश्रयैः। छादयिष्यामि राजेन्द्र माययाऽऽत्मानमात्मना
युधिष्ठिरस्य गेहेऽस्मिन्द्रौपद्याः परिचारिका। उषिताऽस्मीति वक्ष्यामि धर्मराजस्य संमता
उर्वश्याश्चापि शापेन प्राप्तोस्मि नृप षण्डताम्। शक्रप्रसादान्मुक्तोऽहं वर्षादूर्ध्वं त्रयोदशात्। इत्येतन्मे प्रतिज्ञातं विचरिष्याम्यहं यथा
एतेन विधिना छन्नः कृतकेन यथा नलः। विहरिष्यामि राजेन्द्र विराटस्य पुरे सुखम्
वासुदेवसमो लोके यशसा विक्रमेण च। सोयं राज्ये विराटस्य भवने भरतर्षभः
मेरुः प्रच्छादित इव वसन्वज्रोण मुष्टिना। आख्याता षण्डकोस्मीति प्रतिज्ञातं हि पातकं
इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः। वाक्यं तथासौ .... भूयो नृपोऽपरं भ्रातर...बभाषे
किंकर्मा किंसमाचारो नकुलोयं भविष्यति। सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः । सोयमार्तश्च शान्तश्च किं नु रोचयतात्त्विह
किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि। कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः। दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम
दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि । न मां परिभविष्यन्ति जना जात्विह कर्हिचित्
कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने। प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव
न मां परिभविष्यन्ति किशोरा वडवास्तथा । न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः
द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः । तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा
पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा। इति तस्य पुरे छन्नश्चरिष्यामि महीपते । इत्येतद्वः प्रतिज्ञातं विहरिष्याम्यहं यथा
नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः। बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः
मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः । सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः
न चास्य स्खलितं किंचिद्ददृशुस्तद्विदो जनाः। सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः
अधिको मातुरस्माकं कुन्त्याः प्रियतमः सदा। सहदेव कथं कर्म तस्य राज्ञः करिष्यसि। किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि
गोसङ्ख्याता भविष्यामि विराटस्येति रोचये। प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम्। तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति
अयोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः । निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्विषाः
दृष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः । गावः सुसहिता राजन्निरुद्विग्ना निरामयः
भविष्यन्ति मया गुप्ता विराटनगरे तदा। निपुणत्वं चरिष्यामि प्रीतिरत्र परा हि मे
अहं हि भवता गोषु प्रहितः सतत पुरा। तत्र मे कौशलं सर्वमनुबद्धं विशांपते