यथैतानि विशिष्टानि स्वस्यां जात्यां वृकोदर
सोयमिन्द्रादनवमो वासुदेवाच्च भारत । उषित्वा पञ्च वर्षाणि सहस्राक्षस्य वेश्मनि। ब्रह्मचारी व्रते युक्तः सर्वशस्त्रभृतांवरः
अवाप चास्त्रमस्त्रज्ञः सर्वज्ञः सर्वसंमतः । क्षिप्रं चाणु विचित्रं च ध्रुवं च वदतां वरः
अनुज्ञातः सुरेन्द्रेण पुनः प्रत्यागतो महीम्। धार्तराष्ट्रविनाशाय पाण्डवानां जयाय च
यं मन्ये द्वादशं रुद्रमादित्यानां त्रयोदशम् । वसूनां नवमं मन्ये गिरीणामष्टमः स्मृतः
यस्य दीर्घौ समौ बाहू ज्याघातेन किणीकृतौ । दक्षिणश्चैव सव्यश्च बाहू अनडुहो यथा
तलाङ्गुलित्राभ्युचितौ नागराजकरोपमौ । पीनौ परिघसङ्काशौ मृदुताम्रतलौ शुभौ
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः । गाण्डीवधन्वा श्वेताश्वः किरीटी वानरध्वजः
किंरूपधारी किंकर्मा किंचेष्टः किंपरायणः। बीभत्सुर्भीमधन्वा च किं करिष्यति चार्जुनः । कुन्तीपुत्रो विराटस्य रमते केन कर्मणा
इमौ किणीकृतौ बाहू ज्याघाततलपीडनात्। नित्यं कञ्चुकसंछन्नौ नान्यथा गोप्तुमुत्सहे
किं तु कार्यवशादेतदाचरिष्यामि कुत्सितम्
बाहू मे भरतश्रेष्ठ महालाञ्छनलक्षितौ । ज्याघातेन महान्तौ मे गूहितुं नान्यथोत्सहे
उभौ कम्बू प्रतीमुच्य कुण्डले परिपातुके । वेणीकृतशिरा भूत्वा भविष्यामि बृहन्नला
पठन्नाख्यायिकां नाम स्त्रीभावेन पुनः पुनः । प्रजानां समुदाचारं बहुनर्मकृतं वदन् । रमयिष्यामि राजानमन्यं चान्तःपुरे जनम्
नृत्तं गीतं च वादित्रं दिव्यं च विविधं तथा । शिक्षयिष्याम्यहं राजन्विराटनगरे स्त्रियः
स्त्रीभावसमुदाचारान्नृत्तगीतकथाश्रयैः। छादयिष्यामि राजेन्द्र माययाऽऽत्मानमात्मना
युधिष्ठिरस्य गेहेऽस्मिन्द्रौपद्याः परिचारिका। उषिताऽस्मीति वक्ष्यामि धर्मराजस्य संमता
उर्वश्याश्चापि शापेन प्राप्तोस्मि नृप षण्डताम्। शक्रप्रसादान्मुक्तोऽहं वर्षादूर्ध्वं त्रयोदशात्। इत्येतन्मे प्रतिज्ञातं विचरिष्याम्यहं यथा
एतेन विधिना छन्नः कृतकेन यथा नलः। विहरिष्यामि राजेन्द्र विराटस्य पुरे सुखम्
वासुदेवसमो लोके यशसा विक्रमेण च। सोयं राज्ये विराटस्य भवने भरतर्षभः
मेरुः प्रच्छादित इव वसन्वज्रोण मुष्टिना। आख्याता षण्डकोस्मीति प्रतिज्ञातं हि पातकं
इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः। वाक्यं तथासौ .... भूयो नृपोऽपरं भ्रातर...बभाषे
किंकर्मा किंसमाचारो नकुलोयं भविष्यति। सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः । सोयमार्तश्च शान्तश्च किं नु रोचयतात्त्विह
किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि। कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः। दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम
दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि । न मां परिभविष्यन्ति जना जात्विह कर्हिचित्
कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने। प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव
न मां परिभविष्यन्ति किशोरा वडवास्तथा । न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः
द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः । तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा