भीमसेन कथं कर्म मात्स्यराष्ट्रे करिष्यसि। हत्वा क्रोधवशांस्तत्र पर्वते गन्धमादने
यक्षान्क्रोधाभिताम्राक्षान्राक्षसांश्चापि पौरुषात्। प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि
बकं राक्षसराजानं भीषणं पुरुषादकम् । जघ्निवानसि कौन्तेय ब्राह्मणार्थमरिन्दम। क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता
हिडिम्बं च महावीर्यं किर्मीरं चैव राक्षसम्। त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम्
आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी । जटासुरवधं कृत्वा वयं च परिमोक्षिताः
मत्स्यराजांन्तिके तात वीर्यपूर्णोऽत्यमर्षणः। वृकोदर विराटस्य बलीयान्दुर्बलीयसः। समीपे नगरे तस्य वत्स्यसे केन कर्मणा
पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः । इति पाठः सूदोऽहं वललो नाम्ना सूपकारो नराधिप। उपस्थास्यामि राजानं विराटमिति रोचये
रसान्नानाविधांश्चापि स्वादूंश्च मधुरांस्तथा । सूपांश्चापि करिष्यामि कुशलोस्मि महानसे
कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः । तान्यप्यभिभविष्यामि प्रीतिं संजनयन्नहम्
पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् । स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति
आहरिष्यामि दारूणां पाटितानां शतंशतम्। राजा कर्माणि मे दृष्ट्वा न मां परिभविष्यति
ये च तस्य महामल्लाः समरेष्वपराजिताः । कृतप्रतापा बहुशो राज्ञः प्रत्यायिता बले
रङ्गोपजीविनः सर्वे परेषां च भयावहाः । तानहं निहनिष्यामि रतिं राज्ञः प्रवर्तयन्
न च तान्युध्यमानोऽहं नयिष्ये यमसादनम्। तथा तान्निहनिष्यामि जीविष्यन्ति यथाऽऽतुराः
वृषो वा महिषो वापि नागो वा षाष्टिहायनः । सिंहो व्याघ्रो ग्रहीतव्यो भविष्यति न संशयः
तान्सर्वान्दुर्ग्रहानन्यैराशीविषविषोपमान्। बलादहं ग्रहीष्यामि मत्स्यराजस्य पश्यतः
आरालिका वा सूदा वा येऽस्य युक्ता महानसे। तानहं प्रीणयिष्यामिं मनुष्यान्स्तेन कर्मणा
आरालिको गोविकर्ता सूपकर्ता नियोधकः। आसं युधिष्ठिरस्याहमिति वक्ष्यामि मानवान्
आत्मानमात्मना रक्षंश्चरिष्यामि विशांपते । इत्येवं च प्रतिज्ञातं विचरिष्याम्यहं यथा। विराटनगरे च्छन्नो विराटस्य समीपतः
अग्निर्ब्राह्मणरूपेण प्रच्छन्नोऽन्नमयाचत। महाशनं ब्राह्मणं मां प्रमुञ्चार्जुन खाण्डवे
संशुश्रुवे च धर्मात्मा यस्तमर्थं चकार ह। तस्मै ब्राह्मणरूपाय हुताशाय महायशाः । विजित्यैकरथेनेन्द्रं हत्वा पन्नगराक्षसान्
यस्तु देवान्मनुष्यांश्च सर्वानेकरथोऽजयत्। स भीमधन्वा श्वेताश्वः पाण्डवः किं करिष्यति
आशीविषसमस्पर्शो नागानामिव वासुकिः । दृष्टीविष इवाहीनामग्निस्तेजस्विनामिव
समुद्र इव सिन्धूनां शैलानां हिमवानिव। महेन्द्र इव देवानां दानवानां बलिर्यथा
सुप्रतीको गजेन्द्राणां युग्यानां तुरगो यथा। कुबेर इव यक्षाणां मृगाणां केसरी यथा
राक्षसानां दशग्रीवो दैत्यानामिव शम्बरः । रुद्राणामिव कापाली विष्णुर्बलवतामिव
रोषामर्षसमायुक्तो भुजङ्गानां च तक्षकः । वायुवेगबलोद्धृतो गरुडः पततामिव
तपतामिव चादित्यः प्रजानां ब्राह्मणो यथा। ह्रदानामिव पातालं पर्जन्यो नर्दतामिव
आयुधानां वरो वज्रः ककुद्मांश्च गवां वरः। धृतराष्ट्रश्च नागानां हस्तिष्वैरावतो यथा
पुत्रः प्रियाणामधिको भार्या च सुहृदां वरा। गिरीणां प्रवरो मेरुर्देवानां मधुसूदनः। ग्रहाणां प्रवरश्चन्द्रः सरसां मानसो यथा