मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान्। धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि संमतः ।। 13
गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः । तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ ।। 14
विराटनगरे तात मासान्द्वादशसंमितान्। कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते ।। 15
यानियानि च कर्माणि तस्य शक्ष्यामहे वयम्। कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन ।। 16
नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि । मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा ।। 17
अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः । न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् ।। 18
सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः । मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ।। 19
स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि। न दुःखमुचितं किंचिद्राजन्पापमतेर्यथा। स इमामापदं प्राप्य कथं घोरां तरिष्यसि ।। 20
अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः । शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन ।। 21
विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् । सभास्तारो भविष्यामि विराटस्येति मे मतिः ।। 22
कङ्को नाम ब्रुवाणोऽहं मताक्षः साधुदेविता। वैडूर्यान्काञ्चनान्दानान्स्फाटिकान्राजतानपि ।। 23
कृष्णाक्षाँल्लोहिताक्षांश्च निवप्स्यामि मनोरमान्। अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः ।। 24
लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे। दर्शनीयाः सभानन्दाः कुशलैः साधुनिष्ठिताः ।। 25
अप्येतान्पाणिना स्पृष्ट्वा संप्रहृष्यन्ति मानवाः ।। 26
तान्विकीर्य समे देशे रमणीये विपांसुले। देविष्यामि यथाकामं स विहारो भविष्यति ।। 27
कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः। ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले । ब्राह्मे वेदे मयाऽधीते वेदाङ्गेषु च सर्वशः ।। 28
धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः। पृष्टोऽहं कथयिष्यामि राज्ञः प्रियतमं वचः ।। 29
आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा। इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ।। 30
विराटनगरे छन्न एवं युक्तः सदा वसे। इत्येवं मे प्रतिज्ञातं विचरिष्याम्यहं यथा ।। 31
एवं निर्दिश्य चात्मानं निश्वसन्नुष्णमार्तिजम् । विमुञ्चन्नश्रु नेत्राभ्यां भीमसेनमुवाच ह
भीमसेन कथं कर्म मात्स्यराष्ट्रे करिष्यसि। हत्वा क्रोधवशांस्तत्र पर्वते गन्धमादने
यक्षान्क्रोधाभिताम्राक्षान्राक्षसांश्चापि पौरुषात्। प्रादाः पाञ्चालकन्यायै पद्मानि सुबहून्यपि
बकं राक्षसराजानं भीषणं पुरुषादकम् । जघ्निवानसि कौन्तेय ब्राह्मणार्थमरिन्दम। क्षेमा चाभयसंवीता सैकचक्रा त्वया कृता
हिडिम्बं च महावीर्यं किर्मीरं चैव राक्षसम्। त्वया हत्वा महाबाहो वनं निष्कण्टकं कृतम्
आपदं चापि संप्राप्ता द्रौपदी चारुहासिनी । जटासुरवधं कृत्वा वयं च परिमोक्षिताः
मत्स्यराजांन्तिके तात वीर्यपूर्णोऽत्यमर्षणः। वृकोदर विराटस्य बलीयान्दुर्बलीयसः। समीपे नगरे तस्य वत्स्यसे केन कर्मणा
पौरोगवो ब्रुवाणोऽहं बल्लवो नाम नामतः । इति पाठः सूदोऽहं वललो नाम्ना सूपकारो नराधिप। उपस्थास्यामि राजानं विराटमिति रोचये
रसान्नानाविधांश्चापि स्वादूंश्च मधुरांस्तथा । सूपांश्चापि करिष्यामि कुशलोस्मि महानसे
कृतपूर्वाणि यान्यस्य व्यञ्जनानि सुशिक्षितैः । तान्यप्यभिभविष्यामि प्रीतिं संजनयन्नहम्
पूर्वमप्राशितांस्तेन कर्ता रसगुणान्वितान् । स्वादु व्यञ्जनमास्वाद्य मात्स्यः प्रीतो भविष्यति