विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम्। संमन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः । उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश
अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम्। तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ
इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः । प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान्
सर्वे वेदविदो मुख्या यतयो मुनयस्तदा। आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः
ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः। अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः। उत्थाय प्रययुर्वीराः कृष्णामादाय भारत
क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः । श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः
पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः । सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन्
निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः। अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः ।। 1
अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः। भ्रातॄन्कृष्णां च संग्रेक्ष्य धौम्यं च कुरुनन्दनः ।। 2
द्वादशेमानि वर्षाणि राज्याद्विप्रोषिता वयम्। त्रयोदशोऽयं संप्राप्तः कृच्छ्रात्परमदुर्वसः। स साधु कौन्तेय इतो वासमर्जुन रोचय ।। 3
त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन। अबुद्धा धार्तराष्ट्रैश्च समग्राः सह कृष्णया ।। 4
तस्यैव वरदानेन धर्मस्य मनुजाधिप। अज्ञाता विचरिष्यामो नराणां भरतर्षभ ।। 5
यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित् । रमणीयानि गुप्तानि तेषां किंचित्तु रोचय ।। 6
रम्या जनपदाः सन्ति बहवस्त्वभितः कुरून् । पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः । दशार्णाः शूरसेनाश्च कलिङ्गा मागधा अपि ।। 7
विराटनगरं चापि श्रूयते शत्रुसूदन । रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च ।। 8
नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहूनि च । यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् ।। 9
कतमस्मिञ्जनपदे महाराज निवत्स्यसि । मा विषादे मनः कार्यं राज्यभ्रंश इति क्वचित् ।। 10
एवमेतन्महाबाहो यथा स भगवान्प्रभुः। अब्रवीत्सर्वभूतेशस्तथैतन्न तदन्यथा ।। 11
अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्। संमन्त्र्य सहितैः सर्वैर्द्रव्यमकुतोऽभयम् ।। 12
मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान्। धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि संमतः ।। 13
गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः । तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ ।। 14
विराटनगरे तात मासान्द्वादशसंमितान्। कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते ।। 15
यानियानि च कर्माणि तस्य शक्ष्यामहे वयम्। कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन ।। 16
नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि । मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा ।। 17
अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः । न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् ।। 18
सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः । मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ।। 19
स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि। न दुःखमुचितं किंचिद्राजन्पापमतेर्यथा। स इमामापदं प्राप्य कथं घोरां तरिष्यसि ।। 20
अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः । शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन ।। 21
विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् । सभास्तारो भविष्यामि विराटस्येति मे मतिः ।। 22