राजन्विद्वान्भवान्दान्तः सत्यसन्धो जितेन्द्रियः। नैवंविधाः प्रमुह्यन्ति धीराः कस्यांचिदापदि
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुभिस्तदा। तत्रतत्र सपत्नानां निग्रहार्थं महात्मभिः
दितिपुत्रैर्हृते राज्ये देवराजः सुदुःखितः। ब्रह्माणं तोषयिष्यंश्च ब्रह्मरूपं विधाय च
इन्द्रेण निषधं प्राप्य गिरिप्रस्थाह्वये पुरे। छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे
प्रसादाद्ब्रह्मणो राजन्दितेः पुत्रान्महाबलान् । निर्जित्य तरसा शत्रून्पुनर्लोकाञ्जुगोप च
विष्णुनाऽश्मगिरिं प्राप्य तदा दित्यां निवत्स्यता। गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम्
प्रोष्य वामनरूपेण च्छन्नेन ब्रह्मचारिणा। बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम्
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा। यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया
प्रच्छन्नेनापि सर्वत्र हरिणा वृत्रनिग्रहे। वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम्
हुताशनेन यच्चापः प्रविश्य च्छन्नमूषितम्। विबुधानां हि यत्कर्म कृतं तच्चापि ते श्रुतम्
यथा विवस्वता तात छन्नेनोत्तमतेजसा। निर्दग्धाः शत्रवः सर्वे वसता गवि वर्षशः
विष्णुना वसता चात्र गृहे दशरथस्य वै। दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा
एवमेते महात्मानः प्रच्छन्नास्तत्रतत्र हि। अजयञ्छात्रवान्मुख्यांस्तथा त्वमपि जेष्यसि
इति धौम्येन धर्मज्ञो वाक्यैः स परिहर्षितः। शान्तबुद्धिः पुनर्भूत्वा व्यष्टम्भत युधिष्ठिरः
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः। राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन्
अवेक्षय महाराज तव गाण्डीवधन्वना। धर्मार्थपरया बुद्ध्या न किंचित्साहसं कृतम्
सहदेवो मया नित्यं नकुलश्च निवारितौ । शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ
न वयं वर्त्म हास्यामो यस्मिन्योक्ष्यति नो भवान् । तद्विधत्तां भवान्सर्वं क्षिप्रं जेष्यामहे परान्
इत्युक्तो भीमसेनेन धर्मराजो युधिष्ठिरः । सुखोपविष्टो विद्वद्भिस्तापसैः संशितव्रतैः
ये तद्भक्त्याऽभवंस्तस्मिन्वनवासे तपस्विनः । तानब्रवीन्महाप्राज्ञः शिष्टान्राजा कृताञ्जलिः । अभ्यनुज्ञापयिष्यन्वै तस्मिन्वासे धृतव्रतः
विदितं भवतां सर्वे र्धार्तराष्ट्रैर्यथा वयम्। संमन्त्राहृतराज्याश्च निस्स्वाश्च बहुशः कृताः । उषिताः स्मो वने कृच्छ्रं तथा वर्षाणि द्वादश
अज्ञातचर्यासमयं शेषं वर्षं त्रयोदशम्। तद्वत्स्यामः क्वचिच्छन्नास्तदनुज्ञातुमर्हथ
इत्युक्ता धर्मराजेन ब्राह्मणाः परमाशिषः । प्रयुज्यापृच्छ्य भरतान्यथास्वं प्रययुर्गृहान्
सर्वे वेदविदो मुख्या यतयो मुनयस्तदा। आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः
ते तु भृत्याश्च दूताश्च शिल्पिनः परिचारकाः। अनुज्ञाप्य यथान्यायं पुनर्दर्शनकाङ्क्षिणः
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः। उत्थाय प्रययुर्वीराः कृष्णामादाय भारत
क्रोशमात्रमतिक्रम्य तस्माद्वासान्निमित्ततः । श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः
पृथक् शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः । सन्धिविग्रहतत्वज्ञा मन्त्राय समुपाविशन्
निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः। अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः ।। 1
अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः। भ्रातॄन्कृष्णां च संग्रेक्ष्य धौम्यं च कुरुनन्दनः ।। 2