तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत्। त्वं हि मत्प्रभवो राजन्विदुरश्चममांशजः
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः। यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो। दाने तपसि सत्ये च मनो मे सततं वेत्
रउपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव। भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति
इत्युक्त्वान्तऽर्दधे धर्मो भगबाँल्लोकभावनः। समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः
उपेत्यचाश्रमं वीराः सर्व एव गतक्लमाः। आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने
इदं समुत्थानसमागतं मह- त्पितुश्चपुत्रस्य च कीर्तिवर्धनम्। पठन्नरः रस्याद्विजितेन्द्रियो वशी सपुत्रपौत्रः शतपर्षभाग्भवेत्
न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने। कदर्यभावे न रमेनेमनः सदा नृणां सदाख्यानमिदं विजानताम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
पतिव्रता महाभागा सततं सुखभागिनी । द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत्
ते च ब्राह्मणमुख्याश्च सूतपौरोगवैः सह। अज्ञातवासमुषिताः कथं च परिचारकाः
यथा विराटनगरे तव पूर्वपितामहाः । अज्ञातवासमुषितास्तावद्वक्ष्यामि तच्छृणु
तथा स तान्वराँल्लब्ध्वा धर्मराजो युधिष्ठिरः। गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ वृत्तमात्मनः
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः। अरणीसहितं भाण्डं ब्राह्मणाय न्यवेदयत्
ततो युधिष्ठिरो राजा कुन्तीपुत्रो दृढव्रतः। समाहूयानुजान्सर्वानिति होवाच भारत
द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम्। छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः
उषिताश्च वने वासं यथा द्वादश वत्सरान्। अज्ञातचर्यां वत्स्यामश्छन्ना वर्षं त्रयोदशम्
धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः। अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम्
उपोपविश्य विद्वांसः स्नातकाः संशितव्रताः । ये तत्र ब्राह्मणा आसन्वनवाससहायिनः । ये च भक्ता वसन्ति स्म वनवासे तपस्विनः
तानब्रुवन्महात्मानो हृष्टाः प्राञ्जलयः स्थिताः । 0
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् । छद्मना हृतराज्याश्च निस्वाश्च बहुशः कृताः
उषिताश्च वने वासं यथा द्वादशवत्सरान् । भवद्भिरेव सहिता वन्याहारा द्विजोत्तमाः
अज्ञातवाससमयं शेषं वर्षं त्रयोदशम्। तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः । जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः
युक्तचाराश्च यत्ताश्च दाये स्वस्य जनस्य च । दुरात्मनां हि कस्तेषां विश्वासं गन्तुमर्हति
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह। समस्तेषु च राष्ट्रेषु स्वराज्यस्था भवेम हि
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा। संमूर्च्छितोऽभवद्राजा सास्रकण्ठो युधिष्ठिरः
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह
प्रबुध्य दुःखमोहार्तो धौम्यं धर्मभृतांवरम् । प्रावैक्षत तदा राजा साश्रुकण्ठो युधिष्ठिरः
अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा। आश्वासयंस्तं स नृपं भ्रातॄंश्च ब्राह्मणैः सह