सरस्येकेन पादेन तिष्ठन्तमपराजितम्। पृच्छामि को भवान्देवो न मे यक्षो मतो भवान्
बसूनां वा भवानेको रुद्राणामथवा भवान्। अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः
मम हि भ्रातर इमे सहस्रशतयोधिनः। तं योधं न प्रपश्यामि येन सर्वे निपातिताः
सुखं प्रति प्रबुद्दानामिन्द्रियाण्युपलक्षये। स भवान्सुहृदोस्माकमथवा नः पिता भवान्
अहंते जनकस्तात धर्मो मृदुपराक्रम। त्वां रदिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ
यशः सत्यंदमः शौचमार्जवं ह्रीरचापलम्। दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम
अहिंसा समता शान्तिस्तपः शौचममत्सरः। द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सुतो मम
दिष्ट्या पञ्चसु रक्तोसि दिष्ट्या ते षट्रपदी जिता। द्वे पूर्वे मध्यमे द्वे च द्वे शान्ते सांपरायिके ।। $
ध्रमोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः। आनृशंस्येन तुष्टोस्मि वरं दास्यामि तेऽनघ
वरं वृणीष्व राजेन्द्रदाता ह्यस्मि तवानघ। ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः
अरणी तु हृतायस्य मृगेण वदतांवर। तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम
आरणेयमिदं तस्य ब्राह्मणस्य हृतं मया। मृगवेषेण कौन्तेय जिज्ञालार्थं तवानघ
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत। अन्यं वरय भद्रं ते वरं त्वममरोपम
वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम्। तत्रनो नाभिजानीयुर्वसतो मनुजाः क्वचित्
ददानीत्येव भगवानुत्तरं प्रत्यपद्यत। भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम्
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम्। न वो विज्ञास्यते कश्चित्रिषु लोकेषु भारत
वर्षंत्रयोदशमिदं मत्प्रसादात्कुरूद्वहाः। विराटनगरे गूढा अविज्ञाताश्चरिष्यथ
यद्वः संकल्पितं रूपं मनसा यस् यादृशम्। तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ
अरणीसहितं भाण्डं ब्राह्मणाय प्रयच्छत। जिज्ञासार्थं मया ह्येतदाहृतंमृगरूपिणा
प्रवृणीष्वापरं सौम्य वरमिष्टं ददानि ते। न तृप्यामि नरश्रेष्ठ प्रयच्छन्वै वरांस्तथा
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत्। त्वं हि मत्प्रभवो राजन्विदुरश्चममांशजः
देवदेवो मया दृष्टो भवान्साक्षात्सनातनः। यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो। दाने तपसि सत्ये च मनो मे सततं वेत्
रउपपन्नो गुणैरेतैः स्वभावेनासि पाण्डव। भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति
इत्युक्त्वान्तऽर्दधे धर्मो भगबाँल्लोकभावनः। समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः
उपेत्यचाश्रमं वीराः सर्व एव गतक्लमाः। आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने
इदं समुत्थानसमागतं मह- त्पितुश्चपुत्रस्य च कीर्तिवर्धनम्। पठन्नरः रस्याद्विजितेन्द्रियो वशी सपुत्रपौत्रः शतपर्षभाग्भवेत्
न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने। कदर्यभावे न रमेनेमनः सदा नृणां सदाख्यानमिदं विजानताम्
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
पतिव्रता महाभागा सततं सुखभागिनी । द्रौपदी सा कथं ब्रह्मन्नज्ञाता दुःखिताऽवसत्