अथाब्रवीद्भीमसेनं कुनतीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च बीभत्सुश्च परंतप
चिरंगतास्तोयहेतोर्न चागच्छन्ति भारत। तांश्चैवानय भद्रं ते पानीयं च त्वमानय
भीमसेनस्तथेत्युक्त्वा तं देशं प्रत्यपद्यत। रयत्रते पुरुषव्याघ्रा भ्रातरोस्य निपातिताः
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः। अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम्
सचिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे। पास्यामि तावत्पानीयमिति पार्थो वृकोदरः
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः
मा तात साहसंकार्षीर्मम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च
एवमुक्तस्तदा भीमो यक्षेणामिततेजसा। अनुक्त्वैव तु तान्प्रश्नान्पीत्वैव निपपात ह
ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः। `आत्मनाऽऽत्मानमन्विष्य विचारमकरोत्प्रभुः
ततश्चिरगतान्भ्रातृनथाऽऽज्ञाय युधिष्ठिरः। चिरायमाणान्बहुशः पुनः पुनरुवाचह
किंस्विद्वनमिदं दग्धं किंखिद्दृष्टो मृतो भवेत्। प्रहरन्तो महाभूतं शप्तास्तेनाथ तेऽपतन्
न पश्यन्त्यथवा वीराः पानीयं यत्रते गताः। अन्विच्छद्भिर्वने तोयं कालोऽयमतिपातितः
किंनु तत्कारणं येन नायान्ति पुरुषर्षभाः। गच्छाम्येषां पदं द्रष्टुमिति कृत्वा युधिष्ठिरः
समुत्थाय महाबुद्धिर्दह्यमानेन चेतसा। व्यपेतजननिर्घोषं प्रविवेश महावनम्
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्। नीलभास्वरवर्णैश्च पादपैरुशोभितम्
भ्रमरैरुपगीतं च पक्षिभिश् समन्ततः। `मृदुशाड्वलसंकीर्णभूमिभागं मनोहरम्
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम्। ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा
उपेतं नलिनीजालैः सिन्धुवारैः सचेतसैः। केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम्
ततो धर्मसुतः श्रीमान्भ्रातृदर्शनलालसः'। श्रमार्तस्तदुपागम्य सरो दृष्ट्वाऽथ विस्मितः
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवः। क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम्
सरस्येकेन पादेन तिष्ठन्तमपराजितम्। पृच्छामि को भवान्देवो न मे यक्षो मतो भवान्
बसूनां वा भवानेको रुद्राणामथवा भवान्। अथवा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः
मम हि भ्रातर इमे सहस्रशतयोधिनः। तं योधं न प्रपश्यामि येन सर्वे निपातिताः
सुखं प्रति प्रबुद्दानामिन्द्रियाण्युपलक्षये। स भवान्सुहृदोस्माकमथवा नः पिता भवान्
अहंते जनकस्तात धर्मो मृदुपराक्रम। त्वां रदिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ
यशः सत्यंदमः शौचमार्जवं ह्रीरचापलम्। दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम
अहिंसा समता शान्तिस्तपः शौचममत्सरः। द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सुतो मम
दिष्ट्या पञ्चसु रक्तोसि दिष्ट्या ते षट्रपदी जिता। द्वे पूर्वे मध्यमे द्वे च द्वे शान्ते सांपरायिके ।। $
ध्रमोऽहमिति भद्रं ते जिज्ञासुस्त्वामिहागतः। आनृशंस्येन तुष्टोस्मि वरं दास्यामि तेऽनघ
वरं वृणीष्व राजेन्द्रदाता ह्यस्मि तवानघ। ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः