यतः पुरुषशार्दूलौ पानीयहरणे गतौ। तौ ददर्श हतौ तत्रभ्रातरौ श्वेतवाहनः
विगतासू नरव्याघ्रौ शयानौ वसुधातले'। प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः। धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम्
नापश्यत्तत्रकिंचित्स भूतमस्मिन्महावने। सव्यसाची पिपासार्तः पानीयं सोभ्यधावत
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे। यत्त्वमिच्छसि पानीयं नैतच्छक्यं बलात्त्वया
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिवक्ष्यसि। ततः पास्यसि पानीयं हरिष्यसि च भारत
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय। यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः। प्रववर्ष रदिशः कृत्स्नाः शब्दवेधं च दर्शयन्। कर्णिनालीकनाराचानुत्सृजन्भरतर्षभः
स त्वमोघानिषून्मुक्त्वा तृष्णयाऽभिप्रपीडितः। अनेकैरिषुसंघातैरन्तरिक्षे ववर्ष ह
किं विधानेन ते पार्थ प्रश्नानुक्त्वा पयः पिब। अनुक्त्वा च पिबन्प्रश्नान्पीत्वैव नभविष्यसि
स च मोघानिषून्दृष्ट्वातृष्णया च प्रपीडितः। अवज्ञायैव तां वाचं पीत्वैव निपपात् ह
अथाब्रवीद्भीमसेनं कुनतीपुत्रो युधिष्ठिरः। नकुलः सहदेवश्च बीभत्सुश्च परंतप
चिरंगतास्तोयहेतोर्न चागच्छन्ति भारत। तांश्चैवानय भद्रं ते पानीयं च त्वमानय
भीमसेनस्तथेत्युक्त्वा तं देशं प्रत्यपद्यत। रयत्रते पुरुषव्याघ्रा भ्रातरोस्य निपातिताः
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः। अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम्
सचिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे। पास्यामि तावत्पानीयमिति पार्थो वृकोदरः
ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः
मा तात साहसंकार्षीर्मम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च
एवमुक्तस्तदा भीमो यक्षेणामिततेजसा। अनुक्त्वैव तु तान्प्रश्नान्पीत्वैव निपपात ह
ततः कुन्तीसुतो राजा प्रचिन्त्य पुरुषर्षभः। `आत्मनाऽऽत्मानमन्विष्य विचारमकरोत्प्रभुः
ततश्चिरगतान्भ्रातृनथाऽऽज्ञाय युधिष्ठिरः। चिरायमाणान्बहुशः पुनः पुनरुवाचह
किंस्विद्वनमिदं दग्धं किंखिद्दृष्टो मृतो भवेत्। प्रहरन्तो महाभूतं शप्तास्तेनाथ तेऽपतन्
न पश्यन्त्यथवा वीराः पानीयं यत्रते गताः। अन्विच्छद्भिर्वने तोयं कालोऽयमतिपातितः
किंनु तत्कारणं येन नायान्ति पुरुषर्षभाः। गच्छाम्येषां पदं द्रष्टुमिति कृत्वा युधिष्ठिरः
समुत्थाय महाबुद्धिर्दह्यमानेन चेतसा। व्यपेतजननिर्घोषं प्रविवेश महावनम्
रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम्। नीलभास्वरवर्णैश्च पादपैरुशोभितम्
भ्रमरैरुपगीतं च पक्षिभिश् समन्ततः। `मृदुशाड्वलसंकीर्णभूमिभागं मनोहरम्
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम्। ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा
उपेतं नलिनीजालैः सिन्धुवारैः सचेतसैः। केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम्
ततो धर्मसुतः श्रीमान्भ्रातृदर्शनलालसः'। श्रमार्तस्तदुपागम्य सरो दृष्ट्वाऽथ विस्मितः
ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवः। क्षुत्पिपासे च सर्वेषां क्षणेन व्यपगच्छताम्