तस्य गत्वा पदं राजन्नासाद्य च महामृगम्। अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः
ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः। धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः। ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम्
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः। नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात्
तेषां प्रयतमानानां नादृश्यत महामृगः। अपश्यन्तोमृगं श्रान्ता दुःखं प्राप्ता मनस्विनः
शीतलच्छायमागमय् न्यग्रोधं गहने वने। क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन्
तेषां समुपविष्टानां नकुलो दुःखितस्तदा। अब्रवीद्भ्रातरं श्रेष्ठममर्षात्कुरुनन्दनम्
नास्मिन्कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव। अनुत्तराः सर्वभूतेषु भूप संप्राप्ताः स्मः संशयं किंनु राजन्
नापदामस्ति मर्यादा न निमित्तं न कारणम्। धर्मस्तु विभजत्यर्थमुभयोः पुण्यपापयोः
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा। न मया निहतस्तत्रतेन प्राप्ताः स्म संशयम्
वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः। अतितीव्रा मया क्षान्तास्तेन प्राप्ताः स्म संशयं
शकुनिस्त्वां यदाऽजैषीदक्षद्यूतेन भारत। स मया न हतस्तत्रतेन प्राप्ताः स्म संशयम्
ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत्। आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान्। एते हि भ्रातरः श्रान्तास्तव तात पिपासिताः
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येऽष्ठस्य शासनात्। तत उत्थाय मतिमाञ्शीघ्रमारुह्य पादपम्। अब्रवीद्धांतरं ज्येष्मभिवीक्ष्य समन्ततः
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान्। सारसानां च निर्ह्रादस्तत्रोदकमसंशयम्
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः। गच्छ सौम्य ततः शीघ्रं तूणैः रपानीयमानय
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात्। प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम्। पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः। प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः। अपिबच्छीतलं तोयं पीत्वा च निपपात ह
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः। अब्रवीद्ध्रातरं वीरं सहदेवमरिंदमम्
भ्राता चिरायते तात सहदेव तवाग्रजः। तं चैवानय सोदर्यं पानीयं च त्वमानय
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत। ददर्श च हतं भूमौ भ्रातरं नकुलं तदा
भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः। अभिदुद्राव रपानीयं ततो वागभ्यभाषत
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः। प्रश्नानुक्त्वा यथाकामं पिबस्व च हरस्व च
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः। अपिबच्छीतलं तोयं पीत्वा च निपपात ह
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः। भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन
तौ चैवानय भद्रं ते पानीयं च त्वमानय। त्वं हि नस्तात सर्वेषां दुःखितानामपाश्रयः
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः। आमुक्तखङ्गो मेधावी तत्सरः प्रत्यपद्यत