ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम्। दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं महुश्चापि स्मयमानं नृवीरम्
ततश्छित्त्वा कवचं दिव्यमङ्गा- त्तथैवार्द्रं प्रददौ वासवाय। तथोत्कृत्य प्रददौ कुण्डले ते कर्णात्तस्मात्कर्मणा तेन कर्णः
ततः पश्चाद्दिवमेवोत्पपात
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन्। तां रचावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहृपुः काननस्थाः
क्वस्ता वीराः पाण्डवास्ते बभूवुः कुतश्चैते श्रुतवन्तः प्रियं तत्। किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान्व्याकरोतु
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकादाश्रमात्ते। मार्कण्डेयाच्छ्रुतवन्तः पुराणं कदेवर्षीणआं चरितं विस्तरेण
प्रत्याजग्मुः सरथाः सानुयात्राः सर्वैः सार्धं सूतपौरोगवैस्ते। ततो ययुर्द्वैतवनं नृवीरा निस्तीर्यैवं वनवासं समग्रम्
एवं हृतायां भार्यायां प्राप्य क्लेशमनुत्तमम्। प्रतिपद्य ततः कृष्णां किमकुर्वत पाण्डवाः
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्। विहाय काम्यकं राजा सह भ्रातृभिरच्युतः
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः। स्वादुमूलफलं रम्यं विचित्रबहुपादपम्
अनुभुक्तफलाहाराः सर्व एव मिताशनाः। न्यवसन्पाण्डवास्तत्रकृष्णया सह भार्यया
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः। भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः। क्लेशमार्च्छन्त विपुलं सुखोदर्कं परंतपाः
तस्मिन्प्रतिवसन्तस्ते यत्प्रापुः कुरुसत्तमाः। वने क्लेशं सुखोदर्कं तत्प्रवक्ष्यामि ते शृणु
अरणीसहितं भाण्डं ब्राह्मणस्य तपस्विनः। मृगस् घर्षणस्य विपाणे समसज्जत
तदादाय गतो राजंस्त्वरमाणो महामृगः। आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः
ह्रियमाणं तु तं दृष्ट्वा स विप्रः कुरुसत्तम। त्वरितोऽभ्यागमत्तत्रअग्निहोत्रपरीप्सया। `तेषां तु वसतां तत्र पाण्डवानां महारथम्
अजातशत्रुमासीनं भ्रातृभिः सहितं वने। आगम्य ब्राह्मणस्तूर्णं संतप्तश्चेदमब्रवीत्
अरणीसहितं भाण्डं समासक्तं वनस्पतौ। मृगस्य घऱ्षमाणस्य विषाणे समसज्जत
तमादाय गतो राजंस्त्वरमाणो महामृगः। आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः
तस्य गत्वा पदं राजन्नासाद्य च महामृगम्। अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः
ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः। धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः। ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम्
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः। नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात्
तेषां प्रयतमानानां नादृश्यत महामृगः। अपश्यन्तोमृगं श्रान्ता दुःखं प्राप्ता मनस्विनः
शीतलच्छायमागमय् न्यग्रोधं गहने वने। क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन्
तेषां समुपविष्टानां नकुलो दुःखितस्तदा। अब्रवीद्भ्रातरं श्रेष्ठममर्षात्कुरुनन्दनम्
नास्मिन्कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव। अनुत्तराः सर्वभूतेषु भूप संप्राप्ताः स्मः संशयं किंनु राजन्
नापदामस्ति मर्यादा न निमित्तं न कारणम्। धर्मस्तु विभजत्यर्थमुभयोः पुण्यपापयोः
प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा। न मया निहतस्तत्रतेन प्राप्ताः स्म संशयम्