तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः। पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः
स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत। ससुरासुरलोकानामशेषेण मनोगतम्
तामुवाच महाराज भूमिं भूमिपतिः प्रभुः। प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः
यदर्थमभिसंप्राप्ता मत्सकाशं वसुन्धरे। तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च। आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्। अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत्
तथैव च समानीय गन्धर्वाप्सरसां गणान्। उवाच भगवान्सर्वानिदं वचनमर्थवत्
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः। तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा
अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः। नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः
यः स चक्रगदापाणिः पीतवासाः शितिप्रभः। पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः
प्रजापतिपतिर्देवः सुरनाथो महाबलः। श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः
तं भुवः शोधनायेन्द्र उवाच पुरुषोत्तमम्। अंशेनावतरेत्येवं तथेत्याह च तं हरिः
त्वत्तः श्रुतमिदं ब्रह्मन्देवदानवरक्षसाम्। अंशावतरणं सम्यग्गन्धर्वाप्सरसां तथा
इमं तु भूय इच्छामि कुरूणां वंशमादितः। कथ्यमानं त्वया विप्र विप्रर्षिगणसन्निधौ
धर्मार्थकामसहितं राजर्षीणां प्रकीर्तितम्। पवित्रं कीर्त्यमानं मे निबोधेदं मनीषिणाम्
प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च। भरतस्य कुरोः पूरोराजमीढस्य चानघ
यादवानामिमं वंशं कौरवाणां च सर्वशः। तथैव भरतानां च पुण्यं स्वस्त्ययनं महत्
धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ। तेजोभिरुदिताः सर्वे महर्षिसमतेजसः
दश प्राचेतसः पुत्राः सन्तः पुण्यजनाः स्मृताः। मुखजेनाग्निना यैस्ते पूर्वं दग्धा महौजसः
तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः। संभूताः पुरुषव्याघ्र स हि लोकपितामहः
वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः। आत्मतुल्यानजनयत्सहस्रं संशितव्रतान्
सहस्रसङ्ख्यानसंभूतान्दक्षपुत्रांश्च नारदः। मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम्
नाशार्थं योजयामास दिगन्तज्ञानकर्मसु'। ततः पञ्चाशतं कन्या पुत्रिका अभिसन्दधे। प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय
ददौ दश स धर्माय कश्यपाय त्रयोदश। कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे
त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा। मारीचः कश्यपस्त्वस्यामादित्यान्समजीजनत्
इन्द्रादीन्वीर्यसंपन्नान्विवस्वन्तमथापि च। विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः
मार्ताण्डस्य यमी चापि सुता राजन्नजायत'। मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः
धर्मात्मा स मनुर्धीमान्यत्र वंशः प्रतिष्ठितः। मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत्
ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः। ततोऽभवन्महाराज ब्रह्म क्षत्रेण सङ्गतम्
ब्राह्मणा मानवास्तेषां साङ्गं वेदमदारयन्। वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च