विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम्। तेन ते सर्वमाख्यातमेवमेतन्न संशयः
काममस्तु तथा तात तव कर्ण यथेच्छसि। वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि
ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम्। अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव। अमोघां शत्रुसङ्घानां घातिनीं पृथनामुखे
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः। शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्। गृहाण कर्ण शक्तिं त्वमनेन समयेन च
अमोघा हन्ति शतशः शत्रून्मम करच्युता। पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः
सेयं तव करप्राप्ता हत्वैरकं रिपुमूर्जितम्। गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे। गर्जन्तंप्रतपन्तं च यतो मम भयं भवेत्
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे। त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना
यमाहुर्वेदविद्वांसो वराहमपराजितम्। नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते
एवमेतद्यथाऽऽत्थ त्वं दानवानां निषूदन। वधिष्यामि रणे शत्रुं यो मे स्थाता पुरस्सरः
एवमप्यस्तु भगवन्नेकवीरवधे मम। अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम्
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते। निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत्
न ते बीभत्सता कर्ण भविष्यति कथञ्चन। ब्रणश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि
यादृशस्ते पितुर्वर्णस्तेजश्च वदतांवर। तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये। प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्। यथा मामौत्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते
ततः शक्तिं प्रज्वलितां प्रतिगृह् विशांपते। शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत
ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेव। दृष्ट्वा सर्वे सिंहनादान्प्रणेदु- र्न ह्यस्यासीन्मुखजो वै विकारः
ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम्। दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं महुश्चापि स्मयमानं नृवीरम्
ततश्छित्त्वा कवचं दिव्यमङ्गा- त्तथैवार्द्रं प्रददौ वासवाय। तथोत्कृत्य प्रददौ कुण्डले ते कर्णात्तस्मात्कर्मणा तेन कर्णः
ततः पश्चाद्दिवमेवोत्पपात
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन्। तां रचावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहृपुः काननस्थाः
क्वस्ता वीराः पाण्डवास्ते बभूवुः कुतश्चैते श्रुतवन्तः प्रियं तत्। किं वाऽकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान्व्याकरोतु
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकादाश्रमात्ते। मार्कण्डेयाच्छ्रुतवन्तः पुराणं कदेवर्षीणआं चरितं विस्तरेण
प्रत्याजग्मुः सरथाः सानुयात्राः सर्वैः सार्धं सूतपौरोगवैस्ते। ततो ययुर्द्वैतवनं नृवीरा निस्तीर्यैवं वनवासं समग्रम्
एवं हृतायां भार्यायां प्राप्य क्लेशमनुत्तमम्। प्रतिपद्य ततः कृष्णां किमकुर्वत पाण्डवाः
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम्। विहाय काम्यकं राजा सह भ्रातृभिरच्युतः
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः। स्वादुमूलफलं रम्यं विचित्रबहुपादपम्