सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि। न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम्
यदा नान्य प्रवृणुते वरं वै द्विजसत्तमः। `विनाऽस् सहजं वर्म कुण्डले च विशांपते'। तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे। तेनावध्योस्मि लोकेषु ततो नैतज्जहाम्यहम्
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्। प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव
कुण्डलाभ्यां विमुक्तोऽहंवर्मणा सहजेन च। दमनीयो भविष्यामि शत्रूणां द्विजसत्तम
यदन्यं न वरं वव्रे भगवान्पाकशासनः। ततः प्रहस् कर्णस्तं पुनरित्यब्रवीद्वचः
विदितो देवदेवेश प्रागेवासि मम प्रभो। न तु न्याय्यं मया दातुं तव शक्र वृथा वरम्
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम। अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत्
यदि दास्यामि ते देव कुण्डले कवचं तथा। वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम्
तस्माद्विनिमयं कृत्वा कुण्डलेवर्म चोत्तमम्। हरस्व शक्रकामं मे न दद्यामहमन्यथा
विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम्। तेन ते सर्वमाख्यातमेवमेतन्न संशयः
काममस्तु तथा तात तव कर्ण यथेच्छसि। वर्जयित्वा तु मे वज्रं प्रवृणीष्व यथेच्छसि
ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम्। अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव। अमोघां शत्रुसङ्घानां घातिनीं पृथनामुखे
ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः। शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्। गृहाण कर्ण शक्तिं त्वमनेन समयेन च
अमोघा हन्ति शतशः शत्रून्मम करच्युता। पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः
सेयं तव करप्राप्ता हत्वैरकं रिपुमूर्जितम्। गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे। गर्जन्तंप्रतपन्तं च यतो मम भयं भवेत्
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे। त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना
यमाहुर्वेदविद्वांसो वराहमपराजितम्। नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते
एवमेतद्यथाऽऽत्थ त्वं दानवानां निषूदन। वधिष्यामि रणे शत्रुं यो मे स्थाता पुरस्सरः
एवमप्यस्तु भगवन्नेकवीरवधे मम। अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम्
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते। निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत्
न ते बीभत्सता कर्ण भविष्यति कथञ्चन। ब्रणश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि
यादृशस्ते पितुर्वर्णस्तेजश्च वदतांवर। तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये। प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्। यथा मामौत्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते
ततः शक्तिं प्रज्वलितां प्रतिगृह् विशांपते। शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत
ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेव। दृष्ट्वा सर्वे सिंहनादान्प्रणेदु- र्न ह्यस्यासीन्मुखजो वै विकारः