ततः सा वायुना राजन्स्रोतसा च बलीयसा। उपानीतो यतः सूतः सभार्यो जलमाश्रितः
सा तु कौतूहलात्प्राप्तां ग्राहयामास भामिनी। ततो निवेदयामास सूतस्याधिरथस्य वै
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्। यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्रबालकम्
मृष्टकुण्डलयुक्तेन वदनेन विराजितम्। `परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम्
स तु तं परया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम्'। स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः। अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत्
इदमत्यद्भुतं भीरु यतो जातोस्मि भामिनि। दृष्टवान्देवगर्भोऽयं मन्येऽस्माकमुपागतः
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम। इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते
रप्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्। पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम्
स्तन्यं समस्रवच्चास्य दैवादित्थ निश्चयः'। पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्। ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः
नामकर्म च चक्रुस्ते कुण्डले तस् दृश्यते। कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम्
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्। नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः
एवं स सूतपुत्रत्वं जगामामितविक्रमः। वसुषेण इतिख्यातो वृष इत्येव च प्रभुः
सूतस्य ववृधेऽङ्गेषु ज्येष्ठः पुत्रः स वीर्यवान्। चारेण विदितश्चासीत्पृथया दिव्यवर्मभृत्
सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम्। दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम्
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि। सख्यं दुर्योधनेनैवमगमत्स च वीर्यवान्
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्। लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः। योद्धुमाशंसते नित्यं फल्गुनेन महात्मना
सदा हि तस् स्पर्धाऽऽसीदर्जुनन विशांपते। अर्जुनस्य च कर्णेन यतो द्वन्द्वं बभूव ह
एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः। यः सूर्यसंभवः कर्णः कुर्यात्प्रतिकुले रतः
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्। अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः
यदा च कर्णो राजेन्द्र भानुमन्तं दिवाकरम्। स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिलोत्थितः
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतुना। नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः। स्वागतं चेति राधेयस्तमथ प्रत्यभाषत
देवराजमनुप्राप्तं ब्राह्मणच्छद्मनाऽऽवृतम्। दृष्ट्वास्वागतमित्याह न बुबोधास्य मानसम्
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान्। किं ददानीति तं विप्रमुवाचाधिरथिस्ततः
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम्। नाह दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम्
यदेतत्सहजं वर्म कुण्डले च तवानघ। एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान्
एतदिच्छाम्यहं भिक्षां त्वया दत्तां परंतप। एष मे सर्वलाभानां लाभः परमको मतः
अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम्। तत्ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम्
एवं बहुविधैर्वाक्यैर्वार्यमाणः स तु द्विजः। रकर्णेन भरतश्रेष्ठ नान्यं वरमयाचत