रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा। धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा
विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः। विवेश राजभवनं पुनः शोकातुरा ततः
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मयण्वतीं नदीम्। चर्मण्वत्याश्चयमुनां ततो गङ्गां जगाम ह
गङ्गायाः सूतविषयं चम्पामनुययौ पुरीम्। स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः
अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम्। धारयामास तं गर्भं दैवं च विधिनिर्मितम्
एतद्गुह्यं महाराज सूर्यस्यासीन्महात्मनः। स सूर्यसंभवो गर्भः कुन्त्या गर्भेण धारितः
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा। सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ
तस्य भार्याऽभवद्राजन्रूपेणासदृशी भुवि। राधा नाम महाभागा न सा पुत्रमविन्दत। अपत्यार्थे परं यत्नमकरोच्च विशेषतः
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया। दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम्
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्। `विवर्तमानां बहुशः पुनःपुनरितस्ततः
ततः सा वायुना राजन्स्रोतसा च बलीयसा। उपानीतो यतः सूतः सभार्यो जलमाश्रितः
सा तु कौतूहलात्प्राप्तां ग्राहयामास भामिनी। ततो निवेदयामास सूतस्याधिरथस्य वै
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्। यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्रबालकम्
मृष्टकुण्डलयुक्तेन वदनेन विराजितम्। `परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम्
स तु तं परया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम्'। स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः। अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत्
इदमत्यद्भुतं भीरु यतो जातोस्मि भामिनि। दृष्टवान्देवगर्भोऽयं मन्येऽस्माकमुपागतः
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम। इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते
रप्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्। पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम्
स्तन्यं समस्रवच्चास्य दैवादित्थ निश्चयः'। पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्। ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः
नामकर्म च चक्रुस्ते कुण्डले तस् दृश्यते। कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम्
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम्। नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः
एवं स सूतपुत्रत्वं जगामामितविक्रमः। वसुषेण इतिख्यातो वृष इत्येव च प्रभुः
सूतस्य ववृधेऽङ्गेषु ज्येष्ठः पुत्रः स वीर्यवान्। चारेण विदितश्चासीत्पृथया दिव्यवर्मभृत्
सूतस्त्वधिरथः पुत्रं विवृद्धं समयेन तम्। दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम्
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि। सख्यं दुर्योधनेनैवमगमत्स च वीर्यवान्
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम्। लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये रतः। योद्धुमाशंसते नित्यं फल्गुनेन महात्मना
सदा हि तस् स्पर्धाऽऽसीदर्जुनन विशांपते। अर्जुनस्य च कर्णेन यतो द्वन्द्वं बभूव ह
एतद्गुह्यं महाराज सूर्यस्यासीन्न संशयः। यः सूर्यसंभवः कर्णः कुर्यात्प्रतिकुले रतः
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम्। अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः