पिता त्वां पातु सर्वत्र तपनस्तपतांवरः। येन दत्तोसि मे पुत्र दिव्येन विधिना किल
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः। मरुतश्च सहेन्द्रेण दिशश्च सदिदीश्वराः
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च। वेत्स्यामि त्वांविदेशेपि कवचेनाभिसूचितम्
धन्यस्ते पुत्र जनरको देवो भानुर्विभावसुः। स्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम्
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति। यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज
कोनु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्। दिव्यवर्मसमायुक्तं दिव्यकृण्डलभूषितम्
पद्मायतविशालाक्षं पद्मताम्रदलोज्ज्वलम्। सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्। अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम्
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगोचरम्। हिमवद्वनसंभूतं सिंहं केसरिणं यथा
एवं बहुविधं राजन्विलप्य करुणं पृथा। अवामृजतमज्जूषामश्वनद्यां तदा जले
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा। धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा
विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः। विवेश राजभवनं पुनः शोकातुरा ततः
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मयण्वतीं नदीम्। चर्मण्वत्याश्चयमुनां ततो गङ्गां जगाम ह
गङ्गायाः सूतविषयं चम्पामनुययौ पुरीम्। स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः
अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम्। धारयामास तं गर्भं दैवं च विधिनिर्मितम्
एतद्गुह्यं महाराज सूर्यस्यासीन्महात्मनः। स सूर्यसंभवो गर्भः कुन्त्या गर्भेण धारितः
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा। सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ
तस्य भार्याऽभवद्राजन्रूपेणासदृशी भुवि। राधा नाम महाभागा न सा पुत्रमविन्दत। अपत्यार्थे परं यत्नमकरोच्च विशेषतः
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया। दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम्
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्। `विवर्तमानां बहुशः पुनःपुनरितस्ततः
ततः सा वायुना राजन्स्रोतसा च बलीयसा। उपानीतो यतः सूतः सभार्यो जलमाश्रितः
सा तु कौतूहलात्प्राप्तां ग्राहयामास भामिनी। ततो निवेदयामास सूतस्याधिरथस्य वै
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात्। यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्रबालकम्
मृष्टकुण्डलयुक्तेन वदनेन विराजितम्। `परिम्लानमुखं बालं रुदन्तं क्षुधितं भृशम्
स तु तं परया लक्ष्म्या दृष्ट्वा युक्तं वरात्मजम्'। स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः। अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत्
इदमत्यद्भुतं भीरु यतो जातोस्मि भामिनि। दृष्टवान्देवगर्भोऽयं मन्येऽस्माकमुपागतः
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम। इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते
रप्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम्। पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम्
स्तन्यं समस्रवच्चास्य दैवादित्थ निश्चयः'। पुपोष चैनं विधिवद्ववृधे स च वीर्यवान्। ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः
नामकर्म च चक्रुस्ते कुण्डले तस् दृश्यते। कर्ण इत्येव तं बालं दृष्ट्वा कर्णं सकुण्डलम्