ततः कालेन सा गर्भं सुषुवे वरवर्णिनी। कन्यैव तस्य देवस्य प्रसादादमरप्रभम्
तथैवाबद्धकवचं कनकोज्ज्वलकुण्डलम्। हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा
जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी। `उत्स्रष्टुकामा तं गर्भं कारयामास भारत
मञ्जूषां शिल्पिभिस्तूर्णं सुनद्धां सुप्रतिष्ठिताम् ।। प्लवैर्बहुविधैर्बद्धां प्लवनार्थं जले नृप। अजिनैर्मृदुभिश्चैवं संस्तीर्णशयनां तथा
मञ्जूषायां समाधाय स्वास्तीर्णायां समन्ततः। मधूच्चिष्टस्थितायां तं सुखायां रुदती तथा। श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत्
जानती चाप्यकर्तव्यं कन्याया गर्भधारणम्। पुत्रस्नेहेन सा राजन्करुणं पर्यदेवयत्
समुत्सृजन्ती मञ्जूपामश्वनद्यां तदा जले। उवाच रुदतीकुन्ती यानि वाक्यानि तच्छृणु
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक। दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये
शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः। आगताश्च तथा पुत्र भवन्त्यद्रोहचेतसः
पातु त्वां वरुणो राजा सलिले सलिलेश्वरः। अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा
पिता त्वां पातु सर्वत्र तपनस्तपतांवरः। येन दत्तोसि मे पुत्र दिव्येन विधिना किल
आदित्या वसवो रुद्राः साध्या विश्वे च देवताः। मरुतश्च सहेन्द्रेण दिशश्च सदिदीश्वराः
रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च। वेत्स्यामि त्वांविदेशेपि कवचेनाभिसूचितम्
धन्यस्ते पुत्र जनरको देवो भानुर्विभावसुः। स्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम्
धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति। यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज
कोनु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्। दिव्यवर्मसमायुक्तं दिव्यकृण्डलभूषितम्
पद्मायतविशालाक्षं पद्मताम्रदलोज्ज्वलम्। सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति
धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्। अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम्
धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगोचरम्। हिमवद्वनसंभूतं सिंहं केसरिणं यथा
एवं बहुविधं राजन्विलप्य करुणं पृथा। अवामृजतमज्जूषामश्वनद्यां तदा जले
रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा। धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा
विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः। विवेश राजभवनं पुनः शोकातुरा ततः
मञ्जूषा त्वश्वनद्याः सा ययौ चर्मयण्वतीं नदीम्। चर्मण्वत्याश्चयमुनां ततो गङ्गां जगाम ह
गङ्गायाः सूतविषयं चम्पामनुययौ पुरीम्। स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः
अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम्। धारयामास तं गर्भं दैवं च विधिनिर्मितम्
एतद्गुह्यं महाराज सूर्यस्यासीन्महात्मनः। स सूर्यसंभवो गर्भः कुन्त्या गर्भेण धारितः
एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा। सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ
तस्य भार्याऽभवद्राजन्रूपेणासदृशी भुवि। राधा नाम महाभागा न सा पुत्रमविन्दत। अपत्यार्थे परं यत्नमकरोच्च विशेषतः
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया। दत्तरक्षाप्रतिसरामन्वालम्भनशोभनाम्
ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम्। `विवर्तमानां बहुशः पुनःपुनरितस्ततः