न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्। भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम्
अनागसः पितुः शापो ब्राह्मणस्य तथैव च। मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि। नाऽभ्यासादयितव्यानि तेजांसि च तपांसि च
साहमद्य भृशं भीता गृहीत्वा च करे भृशम्। कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्
सा वै शापपरित्रस्ता बहु चिन्तयती हृदा। मोहेनाभिपरीताङ्गी स्मयमाना पुनःपुनः
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम। व्रीडाविह्वलया वाचा शापत्रस्ता विशांपते
पिता मे ध्रियते देव माता चान्ये च बान्धवाः। न तेषु ध्रियमाणएषु विदिलोपो भवेदयम्
त्वया तु संगमो देव यदि स्याद्विधिवर्जितः। मन्निमित्तं कुलस्यास्य लोकेऽकीर्तिर्न संशयः
अथवा धर्ममेतं त्वं मन्यसे तपतांवर। ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम्
आत्मप्रदानं दुर्धर्ष तव कृत्वासती त्वहम्। त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्
न ते पिता न ते माता गुरवो वा शुचिस्मिते। प्रभवन्ति प्रदाने ते भद्रं ते शृणु मे वचः
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि। तस्मात्कन्येह सुश्रोणी स्वतन्त्रा वरवर्णिनि
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि। अधर्मंकुत एवाहं वरेयं लोककाम्यया
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि। स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः
सा मया सहसंगम्य पुनः कन्या भविष्यसि। पुत्रश्च ते महावाद्दुर्भविष्यति न संशयः
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोनुद। कुण्डली कवची शूरो महाबाहुर्महाबलः। `अस्तु मे सङ्गमो देव अनेन समयेन ते
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्। उभयं चामृतमयं तस् भद्रे भविष्यति
यद्यतदमृतादस्ति कुण्डले वर्म चोत्तमम्। मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया। त्वद्वीर्यरूपसत्वौजा धऱ्मयुक्तो भवेत्स च
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि। तस्मै दास्यामि वामोरु वर्म चैवेदमुत्तमम्
परमं भगवन्नेवं सङ्गमिष्ये त्वया सह। यदि पुत्रो भवेदेवं यथा वदसि गोपते
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः। स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्
तत सा विह्वलेवासीत्कन्या सूरय्स् तेजसा। पपात चाथ सा देवी शयने मूढचेतना
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि। सर्वशस्त्रभृतांश्रेष्ठं कन्या चैव भविष्यसि
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत्। एवमस्त्विति राजेन्द्रप्रस्थितं भूरिवर्चसम्
इतिस्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा। तस्मिन्पुण्ये शयनीये पपात मोहाविष्टा वेपमाना लतेव
तिग्मांशुस्तां तेजसा मोहयित्वा योगेनाविश्यात्मसंस्थां चकार। न चैवैनां दूषयामास भानुः संज्ञां लेभे भूय एवात बाला
ततो गर्भः समभवत्पृथायाः पृथिवीपते। शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे
सा बान्धवभयाद्बाला गर्भं तं विनिगूहती। धारयामास सुश्रोणी न चैनां बुबुधे जनः
न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते। कन्यापुरगतां बालां निपुणां परिरक्षणे