पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते। पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्
ततोऽपश्यत्रिदशान्राजपुत्री सर्वानव स्वेषु धिष्ण्येषु खस्थान्। प्रभावन्तं भानुमन्तं महान्तं यथाऽऽदित्यं रोचमानांस्तथैव
सा तान्दृष्ट्वा त्रिदशानेव बाला सूर्यं देवी वचनं प्राह भीता। गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद्दुःख एवापचारः
पिता माता गुरवश्चैवयेऽन्ये देहस्यास्य प्रभवन्ति प्रदाने। नाहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो। बाल्याद्बालेति तत्कृत्वा क्षन्तुमर्हसि मे विभो
बालेति कृत्वाऽनुनयं तवाहं ददानि नान्यानुनयं लभेत। आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवैवं हि भवेच्च भीरु
न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै। असमेत्य त्वया भीरु मन्त्राहूतेन भामिनि
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम्। `गच्छेयमेव सुश्रोणि गतोऽहं वै निराकृतः'। सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे
सा त्वं मया समागच्छ पुत्रं लप्स्यसि माध्शम्। विशिष्टा सर्वलोकेषु भविष्यसि न संशय
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः। अनुनेतुं सहस्रांशुं न शशाक मनस्विनी
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्। भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम्
अनागसः पितुः शापो ब्राह्मणस्य तथैव च। मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि। नाऽभ्यासादयितव्यानि तेजांसि च तपांसि च
साहमद्य भृशं भीता गृहीत्वा च करे भृशम्। कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्
सा वै शापपरित्रस्ता बहु चिन्तयती हृदा। मोहेनाभिपरीताङ्गी स्मयमाना पुनःपुनः
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम। व्रीडाविह्वलया वाचा शापत्रस्ता विशांपते
पिता मे ध्रियते देव माता चान्ये च बान्धवाः। न तेषु ध्रियमाणएषु विदिलोपो भवेदयम्
त्वया तु संगमो देव यदि स्याद्विधिवर्जितः। मन्निमित्तं कुलस्यास्य लोकेऽकीर्तिर्न संशयः
अथवा धर्ममेतं त्वं मन्यसे तपतांवर। ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम्
आत्मप्रदानं दुर्धर्ष तव कृत्वासती त्वहम्। त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्
न ते पिता न ते माता गुरवो वा शुचिस्मिते। प्रभवन्ति प्रदाने ते भद्रं ते शृणु मे वचः
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि। तस्मात्कन्येह सुश्रोणी स्वतन्त्रा वरवर्णिनि
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि। अधर्मंकुत एवाहं वरेयं लोककाम्यया
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि। स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः
सा मया सहसंगम्य पुनः कन्या भविष्यसि। पुत्रश्च ते महावाद्दुर्भविष्यति न संशयः
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोनुद। कुण्डली कवची शूरो महाबाहुर्महाबलः। `अस्तु मे सङ्गमो देव अनेन समयेन ते
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्। उभयं चामृतमयं तस् भद्रे भविष्यति
यद्यतदमृतादस्ति कुण्डले वर्म चोत्तमम्। मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया। त्वद्वीर्यरूपसत्वौजा धऱ्मयुक्तो भवेत्स च
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि। तस्मै दास्यामि वामोरु वर्म चैवेदमुत्तमम्