योगात्कृत्वा द्विधाऽऽत्मानमाजगाम तताप च। आबभाषे ततः कुन्तीं साम्ना परमबल्गुना
आगतोस्मि वशं भद्रे तव मन्त्रबलात्कृतः। किं करोमि वशो राज्ञि ब्रूहि कर्ता तदस्मि ते
गम्यतां भगवंस्तत्र यत एवागतो ह्यसि। कौतूहलात्समाहूतः प्रसीद भगवन्निति
गमिष्येऽहं यथा मा त्वं ब्रवीषि तनुमध्यमे। न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा
तवाभिसन्धि सुभगे रसूर्यात्पुत्रो भवेदिति। वीर्येणाप्रतिमो लोके कवची कुण्डलीति च
सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि। उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने। अथ गच्छाम्यहं भद्रे त्वया संगम्य सुस्मिते
यदि त्वंवचनं नाद्य करिष्यसि मम प्रियम्। शप्स्ये कन्येऽन्यथा क्रुद्धो ब्राह्मणं पितरं च ते
त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः। पितरं चैव ते मूढं यो न वेत्ति तवानयम्
तस् च ब्राह्मणस्याद्य योसौ मन्त्रमदात्तव। शीलवृत्तमविज्ञाय धास्यामि विनयं परम्
एते हि विबुधाः सर्वेपुरंदरमुखा दिवि। त्वया प्रलब्धं पश्यन्ति स्मयन्त इव मां शुभे
पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते। पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्
ततोऽपश्यत्रिदशान्राजपुत्री सर्वानव स्वेषु धिष्ण्येषु खस्थान्। प्रभावन्तं भानुमन्तं महान्तं यथाऽऽदित्यं रोचमानांस्तथैव
सा तान्दृष्ट्वा त्रिदशानेव बाला सूर्यं देवी वचनं प्राह भीता। गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद्दुःख एवापचारः
पिता माता गुरवश्चैवयेऽन्ये देहस्यास्य प्रभवन्ति प्रदाने। नाहं धर्मं लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा
मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो। बाल्याद्बालेति तत्कृत्वा क्षन्तुमर्हसि मे विभो
बालेति कृत्वाऽनुनयं तवाहं ददानि नान्यानुनयं लभेत। आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवैवं हि भवेच्च भीरु
न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै। असमेत्य त्वया भीरु मन्त्राहूतेन भामिनि
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम्। `गच्छेयमेव सुश्रोणि गतोऽहं वै निराकृतः'। सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे
सा त्वं मया समागच्छ पुत्रं लप्स्यसि माध्शम्। विशिष्टा सर्वलोकेषु भविष्यसि न संशय
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः। अनुनेतुं सहस्रांशुं न शशाक मनस्विनी
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्। भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम्
अनागसः पितुः शापो ब्राह्मणस्य तथैव च। मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि। नाऽभ्यासादयितव्यानि तेजांसि च तपांसि च
साहमद्य भृशं भीता गृहीत्वा च करे भृशम्। कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्
सा वै शापपरित्रस्ता बहु चिन्तयती हृदा। मोहेनाभिपरीताङ्गी स्मयमाना पुनःपुनः
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम। व्रीडाविह्वलया वाचा शापत्रस्ता विशांपते
पिता मे ध्रियते देव माता चान्ये च बान्धवाः। न तेषु ध्रियमाणएषु विदिलोपो भवेदयम्
त्वया तु संगमो देव यदि स्याद्विधिवर्जितः। मन्निमित्तं कुलस्यास्य लोकेऽकीर्तिर्न संशयः
अथवा धर्ममेतं त्वं मन्यसे तपतांवर। ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम्
आत्मप्रदानं दुर्धर्ष तव कृत्वासती त्वहम्। त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्