तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः। पूजयामास सा कन्या वर्धमानैस्तु सर्वदा
अन्नादिसमुदाचारः शय्यासनकृतस्तथा। दिवसेदिवसे तस्य वर्धते न तु हीयते
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा। ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा
स्वप्नकाले पुनश्चैति न चैति बहुशो द्विजः। सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत्
कृतमेव च तत्सर्वं यथा तस्मै न्यवेदयत्। शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा। प्रीतिमुत्पादयामास कन्यारत्नमनिन्दिता
तस्यास्तु शीलवृत्तेन तुतोप द्विजसत्तमः। अवधानेन भूयोऽस्याः परं यत्नमथाकरोत्
तां प्रभाते च सायं च पिता पप्रच्छ भारत। अपितुष्यतिते पुत्रि ब्राह्मणः परिचर्यया
तं सा परममित्येवप्रत्युवाच यशस्विनी। ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः
ततः संवत्सरे पूर्णे यदाऽसौ जपतांवरः। नापश्यद्दुष्कृतंकिंचित्पृथायाः सौहृदे रतः
ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्। प्रीतोस्मि परमं भद्रे परिचारेण ते शुभे
वरान्वृणीष्व क्रल्याणि दूरापान्मानुपैरिह। यैस्त्वं सीमन्तिनीः सर्वायशसाऽभिमविष्यसि
कृतानि मम सर्वाणि सस्या मे वेदवित्तम। त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम
यदि नेच्छसि मत्तस्त्वं वरं भद्रे शुचिस्मिते। इमं मन्त्रं गृहाण त्वमाह्रानाय दिवौकसाम्
यंयं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि। तेनतेन वशे भद्रे स्थातव्यं ते भविष्यति
अकामो वा सकामो वा स समेष्यति ते वशे। विबुधो मन्त्रसंभ्रान्तो वाक्यैर्भृत्य इवानतः
न शशक द्वितीयं सा प्रत्याख्यातुमनिन्दिता। तं वै द्विजातिप्रवरं तदा शापभयान्नृप
ततस्तामनवद्याङ्गीं ग्राहयामास स द्विजः। मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम्
तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह। उपितोस्मि सुखं राजन्कन्यया परितोपितः
तवगेहे सुविहितः सदा सुप्रतिपूजितः। साधयिष्यामहे तावदित्युक्त्वाऽन्तरधीयत
स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा। बभूव विस्मयाविष्टः पृथां च समपूजयत्
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये। चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम्
अयं वै कीदृशस्तेन मम दत्तो हमात्मना। मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिति
एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया। व्रीडिता साऽभवद्बाला कन्याभावे रजस्वला
ततो हर्म्यतलस्था सा महार्हशयनोचिता। प्राच्यां दिशि समुद्यन्तं ददर्शादित्यमण्डलम्
तत्र बद्धमनोदृष्टिरभवत्सा सुमध्यमा। न चातप्यत रूपेण भानोः सन्ध्यागतस्य सा
तस्या दृष्टिरभूद्दिव्या साऽपश्यद्दिव्यदर्शनम्। आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम्
तस्याः कौतूहरलं त्वासीन्मन्त्रं प्रति नराधिप। आह्वानमकरोत्साऽथ तस्य देवस्य भामिनी
प्राणानुपस्पृश्य तदा ह्याजुहाव दिवाकरम्। आजगाम ततो राजंस्त्वरमाणो दिवाकरः
मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव। अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव