यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि। यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति
लाभो ममैष राजेन्द्र यद्वैपूजयितुं द्विजान्। आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम
विस्रब्धो भवराजेन्द्र न व्यलीकं द्विजोत्तमः। वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते
यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ। यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते। तारणाय समर्थाः स्युर्विपरीते वधाय च
रसाऽहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम्। न मत्कृतेव्यथां राजन्प्राप्स्यसि द्विजसत्तमात्
अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः। भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम्। यथा त्वया नरेन्द्रेदं भापितं ब्राह्मणं प्रति
एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च। इतिचेति च क्रतव्यं राजा सर्वमथादिशत्
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया। मद्धितार्थं तथाऽऽत्मार्थंकुलार्थं चाप्यनिन्दिते
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः। पृथां परिददौ तस्मै द्विजाय द्विजवत्सलः
इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता। अपराध्येत यत्किंचिन्न कार्यं हृदि तत्त्वया
द्विजातयो महाभागा वृद्धबालतपस्विषु। भवन्त्यक्रोधनाः प्रायो ह्यपराद्धेषु नित्यदा
सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः। यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम
तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः। हंसचन्द्रांशुसंकाशं गृहमस्मै न्यवेदयत्
तत्राग्निशरणे क्लृप्तमासनं तस्य भानुमत्। आहारादि च सर्वं तत्तथैव प्रत्यवेदयत्
निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च। आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने
तत्रसा ब्राह्मणं गत्वा पृथा शौचपरा सती। विधिवत्परिचारार्हं देववत्पर्यतोषयत्
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्। तोषयामास शुद्धेन मनसा संशितव्रता
प्रातरेष्याम्यथेत्युक्त्वा कदाचिद्द्विजसत्तमः। तत आयाति राजेन्द्र सायं रात्रावथो पुनः
तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः। पूजयामास सा कन्या वर्धमानैस्तु सर्वदा
अन्नादिसमुदाचारः शय्यासनकृतस्तथा। दिवसेदिवसे तस्य वर्धते न तु हीयते
निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा। ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा
स्वप्नकाले पुनश्चैति न चैति बहुशो द्विजः। सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत्
कृतमेव च तत्सर्वं यथा तस्मै न्यवेदयत्। शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता
यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा। प्रीतिमुत्पादयामास कन्यारत्नमनिन्दिता
तस्यास्तु शीलवृत्तेन तुतोप द्विजसत्तमः। अवधानेन भूयोऽस्याः परं यत्नमथाकरोत्
तां प्रभाते च सायं च पिता पप्रच्छ भारत। अपितुष्यतिते पुत्रि ब्राह्मणः परिचर्यया
तं सा परममित्येवप्रत्युवाच यशस्विनी। ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः
ततः संवत्सरे पूर्णे यदाऽसौ जपतांवरः। नापश्यद्दुष्कृतंकिंचित्पृथायाः सौहृदे रतः