कर्माणि च नरव्याघ्र धर्मोपेतानि मानवाः। धर्ममेवानुपश्यन्तश्चक्रुर्धर्मपरायणाः
स्वकर्मनिरताश्चासन्सर्वे वर्णा नराधिप। एवं तदा नरव्याघ्र धर्मो न ह्रसते क्वचित्
काले गावः प्रसूयन्ते नार्यश्च भरतर्षभ। भवन्त्यृतुषु वृक्षाणां पुष्पाणि च फलानि च
एवं कृतयुगे सम्यग्वर्तमाने तदा नृप। आपूर्यत मही कृत्स्ना प्राणिभिर्बहुभिर्भृशम्
एवं समुदिते लोके मानुषे भरतर्षभ। असुरा जज्ञिरे क्षेत्रे राज्ञां तु मनुजेश्वर
आदित्यैर्हि तदा दैत्या बहुशो निर्जिता युधि। ऐश्वर्याद्धंशिताः स्वर्गात्संबभूवुः क्षिताविह
इह देवत्वमिच्छन्तो मानुषेषु तपस्विनः। जज्ञिरे भुवि भूतेषु तेषु तेष्वसुरा विभो
गोष्वश्वेषु च राजेन्द्र खरोष्ट्रमहिषेषु च। क्रव्यात्सु चैव भूतेषु गजेषु च मृगेषु च
जातैरिह महीपाल जायमानैश्च तैर्मही। न शशाकात्मनात्मानमियं धारयितुं धरा
अथ जाता महीपालाः केचिद्बहुमदान्विताः। दितेः पुत्रा दनोश्चैव तदा लोकादिह च्युताः
वीर्यवन्तोऽवलिप्तास्ते नानारूपधरा महीम्। इमां सागरपर्यन्तां परीयुररिमर्दनाः
ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्चैवाप्यपीडयन्। अन्यानि चैव सत्वानि पीडयामासुरोजसा
त्रासयन्तोऽभिनिघ्नन्तः सर्वभूतगणांश्च ते। विचेरुः सर्वशो राजन्महीं शतसहस्रशः
आश्रमस्थान्महर्षींश्च धर्षयन्तस्ततस्ततः। अब्रह्मण्या वीर्यमदा मत्ता मदबलेन च
एवं वीर्यबलोत्सिक्तैर्भूरियं तैर्महासुरैः। पीड्यमाना मही राजन्ब्रह्माणमुपचक्रमे
न ह्यमी भूतसत्वौघाः पन्नगाः सनगां महीम्। तदा धारयितुं शेकुराक्रान्तां दानवैर्बलात्
ततो मही महीपाल भारार्ता भयपीडिता। जगाम शरणं देवं सर्वभूतपितामहम्
सा संवृतं महाभागैर्देवद्विजमहर्षिभिः। ददर्श देवं ब्रह्माणं लोककर्तारमव्ययम्
गन्धर्वैरप्सरोभिश्च बन्दिकर्मसु निष्ठितैः। वन्द्यमानं मुदोपतैर्ववन्दे चैनमेत्य सा
अथ विज्ञापयामास भूमिस्तं शरणार्थिनी। सन्निधौ लोकपालानां सर्वेषामेव भारत
तत्प्रधानात्मनस्तस्य भूमेः कृत्यं स्वयंभुवः। पूर्वमेवाभवद्राजन्विदितं परमेष्ठिनः
स्रष्टा हि जगतः कस्मान्न संबुध्येत भारत। ससुरासुरलोकानामशेषेण मनोगतम्
तामुवाच महाराज भूमिं भूमिपतिः प्रभुः। प्रभवः सर्वभूतानामीशः शंभुः प्रजापतिः
यदर्थमभिसंप्राप्ता मत्सकाशं वसुन्धरे। तदर्थं सन्नियोक्ष्यामि सर्वानेव दिवौकसः
इत्युक्त्वा स महीं देवो ब्रह्मा राजन्विसृज्य च। आदिदेश तदा सर्वान्विबुधान्भूतकृत्स्वयम्
अस्या भूमेर्निरसितुं भारं भागैः पृथक्पृथक्। अस्यामेव प्रसूयध्वं तिरोधायेति चाब्रवीत्
तथैव च समानीय गन्धर्वाप्सरसां गणान्। उवाच भगवान्सर्वानिदं वचनमर्थवत्
अथ शक्रादयः सर्वे श्रुत्वा सुरगुरोर्वचः। तथ्यमर्थ्यं च पथ्यं च तस्य ते जगृहुस्तदा
अथ ते सर्वशोंशैः स्वैर्गन्तुं भूमिं कृतक्षणाः। नारायणममित्रघ्नं वैकुण्ठमुपचक्रमुः
यः स चक्रगदापाणिः पीतवासाः शितिप्रभः। पद्मनाभः सुरारिघ्नः पृथुचार्वञ्चितेक्षणः