एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि। उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति। मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्
त्वयि वत्से परायत्तं ब्राह्मणस्याभिराधनम्। तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित्
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः। यद्यद्ब्रूयान्महातेजास्तत्तद्देयमात्सरात्
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः। ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते
अमानयन्हि दाण्डक्यो वातापिश्च महासुरः। निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च। `वैन्ध्याद्रिश्च समुद्रश्च नद्दुषश्च विहिंसितः
सोयं वत्से महाभार आहितस्त्वयि सांप्रतम्। त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि। ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह
तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु। मयि चैव यथावत्त्वंसर्वमावृत्य वर्तसे
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते। सम्यग्वृत्त्याऽनवद्याङ्गि तव भृत्यजनेष्वपि
संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति। पृथे बालेति कृत्वा वै सुता चासिममेति च
वृष्णीनां च कुले जाता शूरस् दयिता सुता। दत्ता प्रीतिमता मह्यं पित्रा बाला पुरास्वयम्
वसुदेवस् भगिनी सुतानां प्रवरा मम। अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम
तादृशे हि कुले जाता कुले मम विवर्धिता। सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवापगा
दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः। बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे
पृथे राजकुले जन्म रूपं चापि तवाद्भुतम्। तेन तेनासि संपन्ना समुपेता च भामिनि
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि। आराध्यवरदं विप्रं श्रेयसा योक्ष्यसे पृथे
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्। कोपिते च द्विजश्रेष्ठे कुत्स्नं दह्येत मे कुलम्
ब्राह्मणं यन्त्रिता राजन्नुपस्थास्यामि पूजया। यथाप्रतिज्ञं राजेन्द्रन च मिथ्या ब्रवीम्यहम्
एष चैव स्वभावो मे पूजयेयं द्विजानिति। तव चैव प्रियं कार्यं श्रेयश्च परमं मम
यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि। यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति
लाभो ममैष राजेन्द्र यद्वैपूजयितुं द्विजान्। आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम
विस्रब्धो भवराजेन्द्र न व्यलीकं द्विजोत्तमः। वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते
यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ। यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः
ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते। तारणाय समर्थाः स्युर्विपरीते वधाय च
रसाऽहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम्। न मत्कृतेव्यथां राजन्प्राप्स्यसि द्विजसत्तमात्
अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः। भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा
नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम्। यथा त्वया नरेन्द्रेदं भापितं ब्राह्मणं प्रति
एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च। इतिचेति च क्रतव्यं राजा सर्वमथादिशत्
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया। मद्धितार्थं तथाऽऽत्मार्थंकुलार्थं चाप्यनिन्दिते