नाहत्वा हि महाबाहो शत्रूनेति करं पुनः। सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः
एवमुक्त्वा सहस्रांशुः सहसाऽन्तरधीयत। `कर्णस्तु बुबुधे राजन्स्वप्नान्ते प्रव्यथन्निव
प्रतिबुद्धस्तु राधेयः स्वप्नं संचिन्त्य भारत। चकार निश्चयं राजञ्शक्त्यर्थं वदतांवर
यदि मामिन्द्र आयाति कुण्डलार्थं परन्तप। शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह
स कृत्वा प्रातरुत्थाय कार्याणि भरतर्षभ। ब्राह्मणान्वाचयित्वा च यथाकार्यमुपाक्रमत्
विधिना राजशार्दूल मुहूर्तमजपत्तदा'। ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत्
यथा दृष्टं यथातत्त्वं यथोक्तमुभयोर्निसि। तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा
तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः। उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा। शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत्
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना। कीदृशेकुण्डले ते च कवचं रचैव कीदृशम्
कुतश्च कवचं तस्यं कुण्डलेचैव सत्तम। एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन
अहं राजन्ब्रवीम्येतत्तस्य गुह्यं विभावसोः। यादृशे कुण्डले ते च कवचं वैव यादृशम्
कुन्तिभोजं पुरा राजन्ब्राह्मणः पर्युपस्थितः। तिग्मतेजा महान्प्रांशुः श्मश्रुदण्डजटाधरः
दर्सनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव। मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः। भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः। एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ
यथाकामं च गच्छेयमागच्छेयं तथैव च। शय्यासने च मे राजन्नापराध्येत कश्चन
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः। एवमस्तु परंचेति पुनश्चैवमथाब्रवीत्
मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी। शीलवृत्तान्विता साध्वी नियताऽनवमानिनी
उपस्थास्यति सा त्वां वै पूजयाऽनवमत्य च। तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि। उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति। मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्
त्वयि वत्से परायत्तं ब्राह्मणस्याभिराधनम्। तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित्
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः। यद्यद्ब्रूयान्महातेजास्तत्तद्देयमात्सरात्
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः। ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते
अमानयन्हि दाण्डक्यो वातापिश्च महासुरः। निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च। `वैन्ध्याद्रिश्च समुद्रश्च नद्दुषश्च विहिंसितः
सोयं वत्से महाभार आहितस्त्वयि सांप्रतम्। त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि। ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह
तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु। मयि चैव यथावत्त्वंसर्वमावृत्य वर्तसे
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते। सम्यग्वृत्त्याऽनवद्याङ्गि तव भृत्यजनेष्वपि