प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा। यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति
व्येतु संतापजं दुःखं तव भास्कर मानसम्। अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम्
तवापि विदितं देव ममाप्यस्त्रबलं महत्। जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम। भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः
यदि तात ददास्येते वज्रिणे कुण्डले शुभे। त्वमप्येनमथो ब्रूया विजयार्थं महाबल
नियमेन प्रदद्यास्त्वं कुण्डलेवै शतक्रतोः। अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः
अर्जुनन विनाशं हि तव दानवसूदनः। प्रार्तयानो रणे वत्स कुण्डले ते जिहीर्षति
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः। अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम्
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्। दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम्
इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले। तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून्
नाहत्वा हि महाबाहो शत्रूनेति करं पुनः। सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः
एवमुक्त्वा सहस्रांशुः सहसाऽन्तरधीयत। `कर्णस्तु बुबुधे राजन्स्वप्नान्ते प्रव्यथन्निव
प्रतिबुद्धस्तु राधेयः स्वप्नं संचिन्त्य भारत। चकार निश्चयं राजञ्शक्त्यर्थं वदतांवर
यदि मामिन्द्र आयाति कुण्डलार्थं परन्तप। शक्त्या तस्मै प्रदास्यामि कुण्डले वर्म चैव ह
स कृत्वा प्रातरुत्थाय कार्याणि भरतर्षभ। ब्राह्मणान्वाचयित्वा च यथाकार्यमुपाक्रमत्
विधिना राजशार्दूल मुहूर्तमजपत्तदा'। ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत्
यथा दृष्टं यथातत्त्वं यथोक्तमुभयोर्निसि। तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा
तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः। उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव
ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा। शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत्
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना। कीदृशेकुण्डले ते च कवचं रचैव कीदृशम्
कुतश्च कवचं तस्यं कुण्डलेचैव सत्तम। एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन
अहं राजन्ब्रवीम्येतत्तस्य गुह्यं विभावसोः। यादृशे कुण्डले ते च कवचं वैव यादृशम्
कुन्तिभोजं पुरा राजन्ब्राह्मणः पर्युपस्थितः। तिग्मतेजा महान्प्रांशुः श्मश्रुदण्डजटाधरः
दर्सनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव। मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः। भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः। एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ
यथाकामं च गच्छेयमागच्छेयं तथैव च। शय्यासने च मे राजन्नापराध्येत कश्चन
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः। एवमस्तु परंचेति पुनश्चैवमथाब्रवीत्
मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी। शीलवृत्तान्विता साध्वी नियताऽनवमानिनी
उपस्थास्यति सा त्वां वै पूजयाऽनवमत्य च। तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि