मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः। मृतः कीर्तिं न जानीते जीवन्कीर्ति समश्नुते
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः। अहं तु त्वां ब्रवीम्येतद्भक्तोसीति हितेप्सया
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना। भक्तोयं परया भक्त्या मामित्येव महाभुज
ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम। अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम्। अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ। नस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान्
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत्। माऽस्मै ते कुण्डले दद्या भिक्षिते वज्रापाणिना
शोभसे कुण्डलाभ्यां च रुचिराभ्यां महाद्युते। विशाखयोर्मध्यगतः शशीव विमले दिवि
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्। प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः
पाण्डवानां हिते युक्तो भिक्षन्ब्राह्मणवेषधृत्'। शक्त्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयाऽनघ। विहन्तुं देवराजस् हेतुयुक्तैः पुनःपुनः
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः। पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद
त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना। सव्यसाची त्वया चेह युधि शूरः समेष्यति
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम्। विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत्
तस्मान्न देये शख्राय त्वयैते कुण्डले शुभे। संग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम्
वैशंपायन उवाच
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते। तथा परमतिग्मांशो नास्त्यदेयं कथंचन
न मे दारा न मेपुत्रा न चात्मा सुहृदो न च। तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम
इष्टानां च महात्मानो भक्तानां च न संशयः। कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर
इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि। जानीत इतिवै कृत्वा भगवानाह मद्धितम्
भूयश्च शिरसा याचे प्रसाद्य च पुनःपुनः। इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि
बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम्। विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम्
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा। यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति
व्येतु संतापजं दुःखं तव भास्कर मानसम्। अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम्
तवापि विदितं देव ममाप्यस्त्रबलं महत्। जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः
इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम। भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः
यदि तात ददास्येते वज्रिणे कुण्डले शुभे। त्वमप्येनमथो ब्रूया विजयार्थं महाबल
नियमेन प्रदद्यास्त्वं कुण्डलेवै शतक्रतोः। अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः
अर्जुनन विनाशं हि तव दानवसूदनः। प्रार्तयानो रणे वत्स कुण्डले ते जिहीर्षति
स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः। अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम्
अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्। दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम्
इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले। तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून्