व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नं विभावसो। यथाऽहं द्विजमुख्येभ्यो दद्यां प्राणानपिध्रुवम्
यद्यागच्छति मां शक्रो ब्राह्मणच्छद्मना वृतः। हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम्
दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम्। न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता
मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम्। युक्तं हि यशसा युक्तं मरणं लोकसंमतम्
सोहमिन्द्राय दास्यामि कुण्डले सह वर्मणा। यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति
हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम्। तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति
वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन्। कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति
कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत्। अकीर्तिर्जीवितं हन्ति जीवतोपि शरीरिणः
अयंपुराणः श्लोको हि स्वयं गीतो विभावसो। धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य ह
पुरुषस्य परे लोके कीर्तिरेव परायणम्। इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी
सोहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम्। दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि
हुत्वा शरीरं रसंग्रामे कृत्वा कर्म सुदुष्करम्। विजित्य च परानाजौ यशः प्राप्स्यामि केवलम्
भीतानामभयं दत्त्वा संग्रामे जीवितार्थिनाम्। वृद्धान्वालान्द्विजातींश्च मोक्षयित्वा महाभयात्
प्राप्स्यामि परमं लोके यशः स्वर्ग्यमनुत्तमम्। जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्वि मे व्रतम्
सो हं दत्त्वा मघवते भिक्षामेतामनुत्तमाम्। ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम्
माऽहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा। पुत्राणामथ भार्याणामथो मातुरथो पितुः
शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर। इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम्। सा ते प्राणान्समादाय गमिष्यति न संशयः
जीवतां कुरुते कार्यं पिता माता सुतास्तथा। ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ
राजानश्च नरव्याघ्र पौरुषेण निबोध तत्। कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते
मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः। मृतः कीर्तिं न जानीते जीवन्कीर्ति समश्नुते
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः। अहं तु त्वां ब्रवीम्येतद्भक्तोसीति हितेप्सया
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना। भक्तोयं परया भक्त्या मामित्येव महाभुज
ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम। अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम्। अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ। नस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान्
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत्। माऽस्मै ते कुण्डले दद्या भिक्षिते वज्रापाणिना
शोभसे कुण्डलाभ्यां च रुचिराभ्यां महाद्युते। विशाखयोर्मध्यगतः शशीव विमले दिवि
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत्। प्रत्याख्येयस्त्वया तात कुण्डलार्थे सुरेश्वरः
पाण्डवानां हिते युक्तो भिक्षन्ब्राह्मणवेषधृत्'। शक्त्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयाऽनघ। विहन्तुं देवराजस् हेतुयुक्तैः पुनःपुनः
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः। पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद