ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्। तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्
भ्रातृणां सोदराणां च तथैवास्याभवच्छतम्। मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम्
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च। भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतं
तथैवैषा हि कल्याणी द्रौपदी शीलसंमता। तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना
एवं स पाण्डवस्तेन अनुनीतो महात्मना। विशोको विज्वरो राजन्काम्यके न्यवसत्तदा
यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम्। स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः
यत्तत्तदा महद्ब्रह्मँल्लोमशो वाक्यमब्रवीत्। इन्द्रस्य वचनादेव पाण्डुपुत्रं युधिष्ठिरम्
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित्। तच्चाप्यपहरिष्यामि धनंजय इतो गते
किंनु रतज्जपतांश्रेष्ठ कर्णं प्रति महद्भयम्। आसीन्न च स धर्मात्मा कथयामास कस्यचित्
अहं ते राजशार्दूल कथयामि कथामिमाम्। पृच्छतो भरतश्रेष्ठ शुश्रूषस्व गिरं मम
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे। पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः। कुण्डलार्थे महाराज सूर्यः कर्णमुपागतः
महार्हे शयने वीरं स्पर्द्ध्यास्तरणसंवृते। शयानमतिविश्वस्तं ब्रह्मण्यं सत्यवादिनम्
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान्। कृपया परयाऽऽविष्टः पुत्रस्नेहाच्च भारत
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगर्द्धिरूपवान्। हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः
कर्ण मद्वचनं तात शृणु सत्यभृतांवर। ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम्
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया। ब्राह्मणच्छद्मना कर्ण कुण्डलोपजिहीर्षया
विदितं तेन शीलं ते सर्वस्य जगतस्तथा। यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितम्। वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कस्यचित्
त्वां तु चैवंविधं ज्ञात्वा स्वयं वै पाकशासनः। आगन्ता रकुण्डलार्थाय कवचं चैव भिक्षितुम्
तस्मै प्रयाचमानाय न देये कुण्डले त्वया। अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम्
कुण्डलार्थेऽब्रुवंस्तात कारणैर्बहुभिस्त्वया। अन्यैर्बहुविधैर्वित्तैः सन्निवार्यः पुनःपुनः
रत्नैः स्त्रीभिस्तथा गोभिर्धनैर्बहुविधैरपि। निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे। आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपैष्यसि
कवचेन समायुक्तः कुण्डलाभ्यां च मानद। अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम
अमृतादुत्थितं ह्येतदुभयं रत्नसंमितम्। तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव
को मामेवं भवान्प्राह दर्शयन्सौहृदं परम्। कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक्
अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये। कुरुष्वैतद्वयो मे त्वमेतच्छ्रेयः परं हि ते
श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः। प्रवक्ताऽद्य हितान्वेषी शृणु चेदं वचो मम
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम्। न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः