तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः। द्युम्सेनाय नातृप्यन्कथयन्तः पुनः पुनः
ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागा नृपम्। आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम्
तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम्। न्यवेदयन्यथावृत्तं विद्रुतं च द्विषद्बलम्
ऐकमत्यं च सर्वस्य जनस्य स्वं नृपं प्रति। सचक्षुर्वाऽप्यचक्षुर्वा स नो राजा भवत्विति
अनेन निश्चयेनेह वयं प्रस्थापिता नृप। प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः। अध्यास्स्व चिररात्राय पितृपैतामहं पदम्
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषाऽन्वितम्। मूर्ध्ना निपतिताः सर्वेविस्मयोत्फुल्ललोचनाः
तोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः। तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति
शैव्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा। नरयुक्तेन यानेन प्रययौ सेनया वृता
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः। पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्। तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्
भ्रातृणां सोदराणां च तथैवास्याभवच्छतम्। मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम्
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च। भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतं
तथैवैषा हि कल्याणी द्रौपदी शीलसंमता। तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना
एवं स पाण्डवस्तेन अनुनीतो महात्मना। विशोको विज्वरो राजन्काम्यके न्यवसत्तदा
यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम्। स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः
यत्तत्तदा महद्ब्रह्मँल्लोमशो वाक्यमब्रवीत्। इन्द्रस्य वचनादेव पाण्डुपुत्रं युधिष्ठिरम्
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित्। तच्चाप्यपहरिष्यामि धनंजय इतो गते
किंनु रतज्जपतांश्रेष्ठ कर्णं प्रति महद्भयम्। आसीन्न च स धर्मात्मा कथयामास कस्यचित्
अहं ते राजशार्दूल कथयामि कथामिमाम्। पृच्छतो भरतश्रेष्ठ शुश्रूषस्व गिरं मम
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे। पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः। कुण्डलार्थे महाराज सूर्यः कर्णमुपागतः
महार्हे शयने वीरं स्पर्द्ध्यास्तरणसंवृते। शयानमतिविश्वस्तं ब्रह्मण्यं सत्यवादिनम्
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान्। कृपया परयाऽऽविष्टः पुत्रस्नेहाच्च भारत
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगर्द्धिरूपवान्। हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः
कर्ण मद्वचनं तात शृणु सत्यभृतांवर। ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम्
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया। ब्राह्मणच्छद्मना कर्ण कुण्डलोपजिहीर्षया
विदितं तेन शीलं ते सर्वस्य जगतस्तथा। यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितम्। वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कस्यचित्
त्वां तु चैवंविधं ज्ञात्वा स्वयं वै पाकशासनः। आगन्ता रकुण्डलार्थाय कवचं चैव भिक्षितुम्