एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः। न हि किंचिद्रहस्यं मे श्रूयतां तथ्यमेव यत्
मृत्युर्मे पत्युराख्यातो नारदेन महात्मना। स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम्
सुप्तं चैनं साक्षादुपागच्छत्सकिंकरः। स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम्
अस्तौषं तमहं देवं सत्येन वचसा विभुम्। पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम
चक्षुषी च स्वराज्यंच द्वौ वरौ श्वशुरस्य मे। लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम्
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्। भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम्
एतत्सर्वं मयाऽऽख्यातं कारणं विस्तरण वः। यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम
निमज्ज्मानं व्यसनैरभिद्रुतं कुलं नरन्द्रस्य तमोमये ह्रदे। त्वया सुशीलव्रतपुण्यया कुलं रसमुद्धृतं साध्वि पुनः कुलीनया
तथा प्रशस्य ह्यभिपूज्य चैव वरस्त्रियं तामृषयः समागताः। नरेन्द्रमामन्त्र्य सपुत्रभञ्जसा शिवेन रजग्मुर्मुदिताः स्वमालयम्
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले। कृतपौर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः। द्युम्सेनाय नातृप्यन्कथयन्तः पुनः पुनः
ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागा नृपम्। आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम्
तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम्। न्यवेदयन्यथावृत्तं विद्रुतं च द्विषद्बलम्
ऐकमत्यं च सर्वस्य जनस्य स्वं नृपं प्रति। सचक्षुर्वाऽप्यचक्षुर्वा स नो राजा भवत्विति
अनेन निश्चयेनेह वयं प्रस्थापिता नृप। प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः। अध्यास्स्व चिररात्राय पितृपैतामहं पदम्
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषाऽन्वितम्। मूर्ध्ना निपतिताः सर्वेविस्मयोत्फुल्ललोचनाः
तोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः। तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति
शैव्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा। नरयुक्तेन यानेन प्रययौ सेनया वृता
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः। पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम्। तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम्
भ्रातृणां सोदराणां च तथैवास्याभवच्छतम्। मद्राधिपस्याश्वपतेर्मालव्यां सुमहाबलम्
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च। भर्तुः कुलं च सावित्र्या सर्वं कृच्छ्रात्समुद्धृतं
तथैवैषा हि कल्याणी द्रौपदी शीलसंमता। तारयिष्यति वः सर्वान्सावित्रीव कुलाङ्गना
एवं स पाण्डवस्तेन अनुनीतो महात्मना। विशोको विज्वरो राजन्काम्यके न्यवसत्तदा
यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम्। स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः
यत्तत्तदा महद्ब्रह्मँल्लोमशो वाक्यमब्रवीत्। इन्द्रस्य वचनादेव पाण्डुपुत्रं युधिष्ठिरम्
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित्। तच्चाप्यपहरिष्यामि धनंजय इतो गते
किंनु रतज्जपतांश्रेष्ठ कर्णं प्रति महद्भयम्। आसीन्न च स धर्मात्मा कथयामास कस्यचित्
अहं ते राजशार्दूल कथयामि कथामिमाम्। पृच्छतो भरतश्रेष्ठ शुश्रूषस्व गिरं मम