शैव्या च सत्यवांश्चैव सावित्री चैकतः स्थिताः। सर्वैस्तैरभ्यनुज्ञाता विशोका समुपाविशन्
ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः। जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम्
प्रागेव नागतं कस्मात्सभार्येण त्वया विभो। विरात्रे चागतं कस्मात्कोनु बन्धस्तवाभवत्
संतापितः पिता माता वयं चैव नृपात्मज। कस्मादिति न जानीमस्तत्सर्वं वक्तुमर्हिसि
पित्राऽहमभ्यनुज्ञातः सावित्रीसहितो गतः। अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः
सुप्तश्चाहं वेदनया चिरमित्युपलक्षये। तावत्कालं न च मया सुप्तपूर्वं कदाचन
सर्वेषामेव भवतां संतापो मा भवेदिति। अतो विरात्रागमनं नान्यदस्तीह कारणम्
अकस्माच्चक्षुः प्राप्तिर्द्युमत्सेनस्य ते पितुः। नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति
श्रोतुमिच्छामि सावित्रि त्वं हि वेत्थ परावरम्। त्वां हि जानामि सावित्रि सावित्रीमिव तेजसा
त्वमत्र हेतुं जानीषे तस्मात्सत्यं निरुच्यताम्। रहस्यं यदि ते नास्ति किंचिदत्र वदस्व नः
एवमेतद्यथा वेत्थ संकल्पो नान्यथा हि वः। न हि किंचिद्रहस्यं मे श्रूयतां तथ्यमेव यत्
मृत्युर्मे पत्युराख्यातो नारदेन महात्मना। स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम्
सुप्तं चैनं साक्षादुपागच्छत्सकिंकरः। स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम्
अस्तौषं तमहं देवं सत्येन वचसा विभुम्। पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम
चक्षुषी च स्वराज्यंच द्वौ वरौ श्वशुरस्य मे। लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम्
चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान्। भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम्
एतत्सर्वं मयाऽऽख्यातं कारणं विस्तरण वः। यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम
निमज्ज्मानं व्यसनैरभिद्रुतं कुलं नरन्द्रस्य तमोमये ह्रदे। त्वया सुशीलव्रतपुण्यया कुलं रसमुद्धृतं साध्वि पुनः कुलीनया
तथा प्रशस्य ह्यभिपूज्य चैव वरस्त्रियं तामृषयः समागताः। नरेन्द्रमामन्त्र्य सपुत्रभञ्जसा शिवेन रजग्मुर्मुदिताः स्वमालयम्
तस्यां रात्र्यां व्यतीतायामुदिते सूर्यमण्डले। कृतपौर्वाह्णिकाः सर्वे समेयुस्ते तपोधनाः
तदेव सर्वं सावित्र्या महाभाग्यं महर्षयः। द्युम्सेनाय नातृप्यन्कथयन्तः पुनः पुनः
ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागा नृपम्। आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम्
तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम्। न्यवेदयन्यथावृत्तं विद्रुतं च द्विषद्बलम्
ऐकमत्यं च सर्वस्य जनस्य स्वं नृपं प्रति। सचक्षुर्वाऽप्यचक्षुर्वा स नो राजा भवत्विति
अनेन निश्चयेनेह वयं प्रस्थापिता नृप। प्राप्तानीमानि यानानि चतुरङ्गं च ते बलम्
प्रयाहि राजन्भद्रं ते घुष्टस्ते नगरे जयः। अध्यास्स्व चिररात्राय पितृपैतामहं पदम्
चक्षुष्मन्तं च तं दृष्ट्वा राजानं वपुषाऽन्वितम्। मूर्ध्ना निपतिताः सर्वेविस्मयोत्फुल्ललोचनाः
तोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः। तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति
शैव्या च सह सावित्र्या स्वास्तीर्णेन सुवर्चसा। नरयुक्तेन यानेन प्रययौ सेनया वृता
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेनं पुरोहिताः। पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन्