अभ्यासगमनाद्भीरु पन्थानो विदिता मम। वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये
आगतौ स्वः पथा येन फलान्यवचितानि च। यथागतं शुभे गच्छ पन्थानं मा विचारय
पलाशखण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा। तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च
स्वस्थोस्मि बलवानस्मि दिदृक्षुः पितरावुभौ। ब्रुवन्नेव त्वरायुक्तः सम्प्रायादाश्रमं प्रति
एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः। लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह
स सर्वानाश्रमान्गत्वा शैब्यया सह भार्यया। पुत्रहेतोः परामार्तिं जगाम भरतर्षभ
तावाश्रमान्नदीश्चैववनानि च सरांसि च। तस्यां निशि विचिन्वन्तौ दम्पती परिजग्मतुः
श्रुत्वा शब्दं तु यं कंचिदुन्मुखौ सुतशङ्कया। सावित्रीसहितोऽभ्येति सत्यवानित्यभाषताम्
भिन्नैश्च परुषैः पादैः सव्रणैः शोणितोक्षितैः। कुशकणअटकविद्धाङ्गावुनमत्ताविव धावतः
ततोऽभिसृत्य तैर्विप्रैः सर्वैराश्रमवासिभिः। परिवार्य समाश्वास्य तावानीतौ स्वमाश्रमम्
तत्रभार्यासहायः स वृतो वृद्धैस्तपोधनैः। आश्वासितोपि चित्रार्थैः पूर्वराजकथाश्रयैः
ततस्तौ पुनराश्वस्तौ वृद्धौ पुत्रदिदृक्षया। बाल्यवृत्तानि पुत्रस्य सावित्र्या दर्शनानि च। शोकं जग्मतुरन्योन्यं स्मरन्तौ भृशदुःखितौ
हापुत्र हासाध्वि वधु क्वासिक्वासीत्यरोदताम्। ब्राह्मणः सत्यवाक्येषामुवाचेदं तयोर्वचः
यथास्य भार्या सावित्री तपसा च दमेन च। आचारेण च संयुक्ता तथा जीवति सत्यवान्
वेदाः साङ्गा मयाऽधीतास्तपो मे संचितं महत्। कौमारब्रह्मचर्यं च गुरवोऽग्निश्च तोषिताः
समाहितेन चीर्णानि सर्वाण्येव व्रतानि मे। वायुभक्षोपवासश्च कृतोमे विधिवत्सदा
अनेन तपसा वेद्मि सर्वं परचीकीर्षितम्। सत्यमेतन्निबोधध्वं ध्रियते सत्यवानिति
उपाध्यायस्य मे वक्राद्यथा वाक्यं विनिःसृतम्। नैव जातु भवेन्मिथ्या तथा जीवति सत्यवान्
यथाऽस्य भार्या सावित्री सर्वैरेव सुलक्षणैः। अवैधव्यकरैर्युक्ता तथा जीवति सत्यवान्
यथाऽस्य भार्या सावित्री तपसा च दमेन च। आचारेण च संयुक्ता तथा जीवति सत्यवान्
यथा दृष्टिः प्रवृत्ता ते सावित्र्याश्च यथा व्रतम्। गताऽऽहारमकृत्वैव तथा जीवति सत्यवान्
यथा वदन्ति शान्तायां दिशि वै मृगपक्षिणः। पार्थिवीं चैववृद्धिं ते तथा जीवति सत्यवान्
सर्वैर्गुणैरुपेतस्ते यथा पुत्रो जनप्रियः। दीर्घायुर्लक्षणोपेतस्तथा जीवति स्यवान्
एवमाश्वासितस्तैस्तु सत्यवाग्भिस्तपस्विभिः। तांस्तान्विगणयन्सर्वांस्ततः स्थिर इवाभवत्
ततो मुहूर्तात्सावित्री भर्त्रा सत्वता सह। आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह
दृष्ट्वा चोत्पतिताः सर्वेहर्षं जग्मुश्च ते द्विजाः। कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदतां
पुत्रेण संगतं त्वां तु चक्षुष्मन्तं निरीक्ष्य च। सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते
समागमेन पुत्रस्य सावित्र्या दर्शनेन च। चक्षुषश्चात्मनो लाभात्रिभिर्दिष्ठ्या विवर्धसे
सर्वैरस्माभिरुक्तं यत्तथा तन्नात्रसंशयः। भूयोभूयः समृद्धिस्ते क्षिप्रमेव भविष्यति
ततोऽग्निं तत्र संज्वाल्य द्विजास्ते सर्व एव हि। उपासांचक्रिरे पार्थ द्युमत्सेनं महीपतिम्